पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४३

पुटमेतत् सुपुष्टितम्
१८
दैवं

णमात्रं चैतत् । प्रयोगे तु 'अकर्मकाच्च' (१-३-४५) इत्यात्मनेपदं मा भूदिति कृष्णमित्यादि कर्मोप[१]स्कर्तव्यम्; अ[२]कर्त्रभिप्रायविषयं च द्रष्टव्यम्, अन्यथा 'अनुपसर्गात् ज्ञ' (१-३-७६) इत्यात्मनेपदप्रसङ्गात् । घटादेः पुनरस्य मारणाद्यर्थत्वे ज्ञपयतीति तु सिध्येत् । पादपूरणार्थो वा तुः । अत्र 'मारणतोषणनिशामनेषु ज्ञा' इति घटादिषु पठ्यते । इत्थमेव च 'श्लाघह्नुङ्स्था' (१-४-३४) इत्यत्र न्यासः । 'निशानेष्विति पाठ' इति तु ह[३]रदत्तः । चन्द्रगोमी चैवमेवापाठीत् । क्षीरस्वामिशाकटायनकौमारास्त्वाद्यमपि पाठं पक्षान्तरत्वेन पर्यग्रहीषुः । तत्र निशामनमालोचनं चाक्षुषज्ञानम् । शाकटायनस्तु 'आलोचनं प्रणिधानमाहुः' इत्याह । निशानं तीक्ष्णीकरणं । तत्र मारणादिष्वर्थेषु ज्ञा मित्संज्ञो भवतीत्यर्थः । इति भित्त्वाण्णौ 'भितां हृस्व' (६-४-९२) इति हृस्वः । तेषु तु मारणे संज्ञपयतीति प्रयुञ्जते । शेषयोरपि कौमारानुसारेण विपूर्वः प्रपूर्वश्च प्रयोगो द्रष्टव्यः । विष्णुं विज्ञपयति, प्र[४]ज्ञपयति रूपं कोपं वेति । अथ ज्ञपिप्रसङ्गादनादन्तस्यापि ज्ञपेः फलमुक्तं--'ज्ञप मिच्च' इति चुरादिमित्त्वेऽपि इदमेव पदम्, तच्च ज्ञापने मारणादौ च प्रयुज्यत इति । केचित्[५] पुनः 'ज्ञप मारणतोषणनिशामनेषु मिच्च' इति वा 'मारणतोषणनिशामनेषु ज्ञा मिच्च' इति वा पठन्ति । व्यक्तं चैतद् 'इको झल्' (१-२-९) इत्यत्र न्यासे । अनयोस्त्वाद्यमेव पक्षं क्षीरस्वामी समाशिश्रियत् । निशानेष्विति


  1. अध्याहर्तव्यमित्यर्थः.
  2. अस्य विशेष्यम् 'एतद्' इति.
  3. 'श्लावह्नुङ्' इत्यत्रैव.
  4. दर्शयति तीक्ष्णीकरोति वेत्यर्थः । अनयोश्चार्थयोः क्रमेण रूपकोपौ कर्मणी.
  5. ज्ञपिविषये चुरादौ पाठभेदान् दर्शयस्तेषु 'ज्ञप मिच्च' इति पाठस्य युक्ततमत्वं साधयितुमारभते केचिदित्यादिना.