पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४८

पुटमेतत् सुपुष्टितम्
२३
पुरुषकारोपेतम् ।

 इति च क्वचित् कोशे दृश्यते । ष्णा शौचे । अदादिः । ष्णै शौचे। तथा च-

'पाञ्चाल्याः पद्मपत्राक्ष्याः स्नायन्त्या जघनं घनम् ।
__ या स्त्रियो दृष्टवत्यस्ताः पुम्भावं मनसा ययुः॥'

 इति भगवान् व्यासः । 'स्नाति स्नायत्याप्लवत' इति चाख्या- तनिघण्डुः । 'उष्णीषं स्नायतेः' इति निरुक्तं चैवमेव व्याचख्युः- 'उष्णीषं शिरोवेष्टनं । स्नायतेः शौचार्थस्य वेष्टनार्थस्य वोभय- स्यापि तत्र सम्भवाद्' इति । एवं च ष्णै वेष्टन' इत्यस्यापि स्ना- येदिति द्रष्टव्यम् । क्षीरस्वाम्यादीनां च बहूनामनुमतोऽयं पाठः। देवेन तु ष्टै वेष्टने स्तायति तिष्टापयिषति' इति मैत्रेयरक्षितोक्त- तकारविस्रम्भान्नायमनुसृतः ॥

 क्षये क्षयति हिंसायां क्षिणातीति षितो भवेत् ॥१२॥
 निवासगत्योः क्षियति क्षिणोत्यावगुणे क्षिणोः ।
 [एके क्षेरेव भाषायां क्षिणोतीति पदं विदुः।]

  अत्रान्त्यमर्धं क्वचिदेव दृश्यते । 'क्षि क्षये' । क्षिरैश्वर्ये इत्येके' इत्येवं क्षीरस्वामी; 'ऋभून् क्षयति ईष्टे ऋभुक्षेन्द्रः' इति च। क्षिष् हिंसायां' । क्र्यादिः । षिद्ग्रहणमस्यैव पाठस्योपलक्षणा- र्थं, 'रि क्षि' इति वक्ष्यमाणक्षिव्यावृत्त्यर्थं च, 'षिद्भिदादिभ्योऽङ्


 १. क्वचिदेवेत्यनुक्त्या वहुष्वदर्शनेऽप्येकत्र दर्शनं वक्ष्यमाणप्रयोगतः स्नाधा- तुपुनःपाठावधारणादादरणीयं मन्यते । अन्यथा तु समनन्तरश्लोकव्याख्यायामिव अदर्शनस्यादरणीयता सूचयितुं निषेधप्रधानमेवकारं निर्दिशेत्. २. शौचार्थस्य' इति भगवद्दुर्गः. ३. एवकारलभ्यस्य बहुष्वदर्शनस्य प्रधानवाक्यार्थस्यादरणी.

यतां मन्यते क्षिणोतीति पदस्यान्यतः सिद्धत्वात् .