पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५१

पुटमेतत् सुपुष्टितम्
२६
दैवं

इत्यामः । तत्र चैकत्वेऽप्यादिवद्भावव्यपदेशिवद्भावाभ्यामिजादि- त्वगुरुमत्त्वे । व्यक्तौ चैतौ पक्षौ मैत्रेयरक्षितवृत्तौ । अपरे पुनरु- भावपि न पठन्ति । व्यक्तं चैतद् धनपालशाकटायनवृत्त्योः । अपि च 'शौटृ गर्वे' इत्यादिकान् कांश्चन धातून् पठित्वान्ते च 'उदात्ता' इत्युच्यते । तच्चास्मिन् प्रकरणेऽयतेरपि पाठे सति त- स्य अनिट् स्वरान्तो भवतीति दृश्यताम्' इत्यनुदात्तत्वात् प्राचु- र्याभिप्रायेण कथञ्चिन्नेयं स्याद् , यथा वा मैत्रेयरक्षितः-'उदात्त- त्वमयतिवर्जम् , भट्टग्रामन्यायेन तूदात्ता इत्युच्यते' इति । स चायं न्यायः सुनिश्चित एवायतेः पाठे शोभेत; विप्रतिपन्ने पुन- रुदात्तोक्त्याञ्जस्यवशादपाठपक्ष एव साधीयान् । उदयतीत्यादि चैवमसाध्वेवास्तु । क्षीरस्वामी पुनः ‘इट किट कटी गतौ' इति पठित्वा 'ईदित्त्वात् कटः कट्टवान् । अन्ये इदितमेनम् ईं च प्र- श्लिष्टमाहुः' इति चोक्त्वा कण्टति क(ण्टा?)ण्टकफलः, मानुषक- ण्टकः 'उदयति दिननाथे याति शीतांशुरस्तम्' इति. चोदाहृत्य (दिक्कालादप्ययगतौ?) इति पठित्वैतदेवोदाहरन् साध्वेव मन्यते। 'इण् गतौ । अदादिः। ईङ् गतौ । दिवादिः । 'इङ् अध्ययने'।

१. आम्प्रत्ययस्यादन्तत्वममित्त्वाय. २. आदिवद्भावस्य वचनं व्यपदेशिव. द्भावेन गतार्थत्वं व्यङ्तुम् . ३. इ, ई इति पाठभेदपक्षौ. ४. गडिपर्य- न्तान् . ५. 'एकाच उपदेशेऽनुदात्ताद्' (७-२-१०) इति सूत्रे काशिका- यामनिट्कारिकेयम् . ६. 'भूयसा व्यपदेश' इति न्यायेन. ७. साधीयःपक्षे. ८. 'पनसः कण्टकफल' इत्यमरः. ९. कुण्डलनान्तर्गतं "हिक्कादौ 'अय व्यय गतौ'" इति संस्कृत्य पठनीयं प्रतिभाति । हिक्कप्रभृतिगुहूपर्यन्तधातुगणो हिक्कादिः । अत एव तेन स्वरितेता 'उदयति' इति प्रयोगस्य सिद्धत्वात् 'कटी'

इत्यत्र धात्वन्तरप्रश्लेषमन्यपक्षीयं वदन् क्षीरस्वामी स्वयं न रोचयाम्बभूव .