पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५५

पुटमेतत् सुपुष्टितम्
३०
दैवं

वस्थायां ञित्त्वाख्यस्य लिङ्गस्य कृतार्थत्वादिति । तत्र चाद्ये रूपे 'णिच्प्रकरणे धूञ्प्रीञोर्नुग्वचनम्' इति वार्त्तिकेन नुक् । धूञ्- प्रीणोरिति तु पाठे क्र्यादेरेवानेन नुग्विधानात् प्राययेदिति पठितव्यम् । आह चात्र हरदत्तः - 'नान्तानुकरणादै- वादिकस्य न भवति' इति । देवादिकग्रहणेन चात्र चौ- रादिकोऽप्युपलक्षयितव्यः । तथा 'धूञ्प्रीणात्योर्नुग्' इति कौ- माराः । धातुवृत्तिकाराः पुनर्युजादावपि प्रीणयतीत्युदाहरन्तो धूञ्प्रीञोरित्येव पाठं मन्यन्ते । तन्त्रान्तरीयाश्चैवमेव पठन्ति ॥

 विहायसां गतौ डीङो डयते डीयते पदे ॥ २० ॥

  'डीङ् विहायसां गतौ' । भ्वादिर्दिवादिश्च । विहायसां विहगानाम् । 'डीङ् आकाशगमन' इति भूवादौ चन्द्रः । तथा भीमसेनोऽप्यत्र विहायसेति पपाठ । धनपालवाकाशगताविति व्याकुर्वन्नेवमेव पपाठ । दिवादौ तु 'डीङ् गतौ' इति क्षीरस्वामि- धनपालौ तन्त्रान्तरीयाश्च ॥

 षुञः सुनोति सुनुते प्रसवैश्वर्ययोरसौत् ।
 गतौ तयोश्च सवति द्विरुक्त्या तस्य सो न षः॥२१॥

  'पुञभिषवे' । स्वादिः । 'षु प्रसवैश्वर्ययोः । अदादिभूवा- दिश्च । ओमिति ब्रह्मा प्रसौति' इत्यादिदर्शनात् प्रसवोऽभ्य- नुज्ञा । 'उतो वृद्धिर्लुकि हलि' (७-३-८९) इति वृद्धिः । 'सु, स्रु गतौ । द्विरुक्त्येति । 'स्रु गतौ' । 'षु प्रसवैश्वर्ययोश्च' इति पाठ्ये सोर्द्विष्पाठाद् गत्यर्थस्य सुसावेत्यादौ षत्वं न भवतीत्यर्थः । भाष्ये


१. अश्नान्तत्वाविशेषादित्यर्थः. २. इदं तैत्तिरीयोपनिषदि ( अनुवाके । प्रसौति अभ्यनुजानातीत्यर्थः.


+क्त्यैकस्य' इति खपुरतके पाठः,