पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८३

पुटमेतत् सुपुष्टितम्
५८
दैवं

मार्ज शब्दार्थः । तथा 'गज गजी'त्यत्र क्षीरस्मामी मृज मृजि [१]इत्यप्याह मार्जति मृञ्जतीति ॥

 वेवेक्तीति पृथग्भावे विविक्ते च भये पुनः ॥ ६१ ॥
 विनक्ति विजते

'विजिर् पृथग्भावे' । [२]जुहोत्यादिः । 'णिजां त्रयाणां गुणः श्लौ' (७-४-७५) इत्यभ्यासस्य गुणः । 'ओविजी भयचलनयोः । रुधादिस्तुदादिश्च ॥

सर्गे सृज्यते सृजतीति च ।
 

  'सृज विसर्गे' । दिवादिस्तुदादिश्च । लोके त्वनुपसृष्टः सृजिः सृष्टौ प्रसिद्धः कर्षतिरिवाकर्षण इत्यतो विसर्ग इति नोक्तं '[३]कर्षत्याकर्षण' इत्यत्रेव विलेखन इति ॥

 ऋञ्जते भर्जने गत्याद्यर्थे स्यादर्जते त्वृजेः ॥ १२ ॥

  'ऋजि भृ (जि?)जी भर्जने' । 'ऋज गतिस्थानार्जनोपार्जनेषु' इति मैत्रेयरक्षितः । ऊर्जनेष्विति क्षीरस्वामिशाकटायनधनपालाः । अनुदात्तेत् ॥

 प्रतियत्नेऽर्जयेदर्जेरर्जतीत्यर्जने पदम् ।

  'अर्ज प्रतियत्ने' । अत्र ‘उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु (६-१-१३९) इत्यत्र [४]वामनः-'सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः' इति । अत्र [५]चान्तरो-


  1. एतच्च ५९ श्लोके गर्जेदित्यंशव्याख्यायामुक्तम्
  2. अयं स्वरितेत् .
  3. कर्षत्याकर्षणे शे तु कृषते कृषतीत्युभे' इति १७८ तमे श्लोके
  4. काशि- काकारः.
  5. वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः. १. अन्तरशब्द- स्यान्यवाचिन उपादानेन.