पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८६

पुटमेतत् सुपुष्टितम्
६१
पुरुषकारोपेतम् ।

स्वामी-- अनिदित्येके' इति । सुधाकरश्च भूवादि (१-३-१) सूत्रे 'अनिदित्पारायणेष्वपाठि, गोजति जुगोजेत्याद्युदाहृतेः । [१]पक्षे पुनरिदिदेव गीत:" इति । शाकटायनः पुनर्गुज गुजीति पठन्प क्षद्वयमपि परिजग्राह । 'गुज शब्दे' । तुदादिः ॥

 भृज्जते भृज्जति भ्रज्सेर्भर्जने भर्जते भृजेः ।

  'भ्रज्स पाके' । 'ऋजि भृजी भर्जने' ॥

 प्रकाशे लजयेद् व्रीळे लज्जते लजते पदे ॥१८॥
 लञ्जेल्लाञ्जेल्लाजेदित्येते भर्त्सने शपि ।

  'लज प्रकाशने' । कथादिः । 'लजि इत्येके' इति मैत्रेयरक्षितः । तदा लञ्जयेदिति पठितव्यम् । लञ्जापयेदिति शाकटायनः । 'कथादिपातिस्फायोऽग्लग्वम्' (४-१-१९७) इत्यगागमश्च । कथादीनां पातेः स्फायतेश्च अक्, लक्, वम् इत्येत आगमा णौ क्रमाद् भवन्तीत्यर्थः । ततो वृद्धिपुकौ । 'ओलजी, ओ लज्सी [२]व्रीळने'। तुदादी । तत्र च शो भवन् 'तास्यनुदात्तेद्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्विङो:' (६-१-१८६) इति तिङ्यनुदात्ते उञ्छतिवदुदात्तः। 'लज लाजि भर्सने' । 'लाज लजि भर्त्सने च' । अत्र मैत्रेयरक्षितः- 'चकारो भिन्नक्रमः । एतावपि भर्सने पठ्येते इत्यर्थः । इति । 'लज लजि भर्त्सने । लाज लाजि भर्जने च' इति तु क्षीरस्वामी । 'लज लजु भर्त्सने । लाज लाजु भर्जने चे'ति पठन् शाकटायनोऽप्यनैवानुकूलः । एवञ्च भ(र्ज)र्त्सनग्रहणं भर्जनस्यापि काममुपलक्षणं द्रष्टव्यम् । लञ्जयेदिति च क्षीरस्वामिनः पक्षे, तेन लजेरपि पट-


  1. 'लक्ष्ये' इति गपुस्तके पाठः
  2. 'व्रीले' इति गपुस्तके पाठः.