कणेः कणति शब्दार्थे काणयेण्णौ निमीलने ॥ ९० ॥
कण शब्दार्थः । 'कण निमीलने' । घटादौ च 'कण रण गतौ इति पठ्यते । तस्य तु हेतुमण्णिचि कणयेत् । शब्दा- र्थस्य तु काणयेदित्येव ॥
भूवाद्योर्घुणिघूर्ण्योः स्तां घोणते घूर्णते शपि ।
भ्रमणेऽत्र तुदाद्योः शे स्यातां घुणति घूर्णति ॥ ९१ ॥
'घुण घूर्ण भ्रमणे' । अत्रेति भ्रमण एवेत्यर्थः ॥
अणेरणति शब्दार्थे प्राणने त्वण्यते श्यनि ।
अण शब्दार्थः । 'अण प्राणने' । अनुदात्तेत् । अनेति शाकटायनः । तवर्गान्तकाण्डं चैवमनुसृतं भवति ॥
मितः श्रणति दानार्थे श्राणयत्यत्र णौ पदम् ॥ ९२ ॥
'चण शण श्रण दाने' । घटादयः । 'गतावित्येक' इति मैत्रेयरक्षितः । मित्फलं पुनः श्रणयतीति हेतुमाण्णिचि ह्रस्वः। श्रण दाने' । विपूर्वश्चायं दृश्यते । 'विश्राणनं वितरणम्' इति ॥
व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने ।
'व्रण शब्दार्थः' । 'व्रण गात्रचूर्णने' । कथादिः ॥
आमन्त्रणे तु कुणयेच्छब्दे चोपकृतौ कुणेत् ॥ ९३ ॥
'कुण आमन्त्रणे' । कथादिः । 'कुण शब्दोपकरणयोः । तुदादिः ॥
बन्धनेऽन्तति सातत्यगमनेऽतति
१. गत्यर्थस्यैव घटादावनुवादादिति भावः. २. 'अण रण वण' इत्यादि-
दण्डके पठितः. ३. अणरणादिदण्डकपठितः.