पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा यः सौगतार्हतादीनां समूहः संघ उच्यते । चतुष्पदां गवादीनां समूहो व्रज उच्यते ॥ अंसच्छास्त्राधिगन्तॄणां समूहः पुञ्ज उच्यते । · चण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥ कारुशिल्पिप्रभृतीनां निवहः श्रेणिरुच्यते || चातुर्वर्ण्यस्य या सूतिरसजात्यादिसंभवा । तस्या धर्माः समुद्दिष्टा जाति: सा परिकीर्तिता ॥ हेतुप्रदर्शनम् । यथा तत्त्वावधारणं स्वानिटनिवारणं न ग्राम श्रेणादीनां कार्यानर्णतारस्तेपामेव शिष्टाः भवंति तथा कौशलेन निर्वाहणीयमित्यत्र तात्पर्यम् । व्यप्र. २३ ग्रामश्रेणिगणादीनां भवेयुः कार्यचिन्तकाः ।। शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः । सर्वकार्यप्रवीणाश्चाऽलुब्धा वृद्धा महत्तराः ॥ कर्तव्यं वचनं तेषां समूहहितवादिनाम् । पूगनैगमपापण्डसंघानामध्ययं विधिः ॥ वणिशिल्पिप्रयोगेषु कृषिरङ्गोपजीविषु । अशक्यो निर्णयो ह्यत्र तत्वज्ञैरेव कारयेत् ॥ तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् || 'सम्यग्विज्ञानसंपन्नेनोपदेशं प्रकल्पयेत् । उत्कृष्ट जातिशीलानां गुवीचार्यतपस्विनाम् ।। सम्यग्विज्ञान संपन्नेनेति तृतीयान्तं पदम् । तथा च तज्ज्ञानोत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनामुपदेशं प्रकल्पयेत् कारयेत् । न स्वयमुपदेशं तेषां कुर्यादित्यर्थः । तानि न सर्वथा राज़ो व्यवहारप्रदर्शनप्रतिषेधपराणि । किन्तु तत्तकार्य वणिगादीनामभियुक्तत्वात्तान्विहाय न

  • व्याख्यासंग्रहः एतस्मिन्नेव व्यासवचने (४.६४) द्रष्टव्य::

(१) विर.६६९ यः ... दीनां (आहंनभोगतानां तु) पू.: व्यनि.; दावे. ३१ यः सौगताहंता (अहंतां सौगता) पू.; प्रका. १०; समु. ११.. (२) विर.६६९ उत्त; व्यनि.; दवि. ३१ चण्डा (चाण्डा) उत्त.; प्रका. १०; समु.११. (३) व्यनि. वहः (वास:): प्रका. १०; समु.११. (४) विर.६६९. ( ५ ) व्यनि.; प्रका. १०; समु. ११. (६) व्यनि.; प्रका. १० . (७) व्यनि: प्रका. १०. (८) व्यक. १३ तत्वज्ञैरेव (तज्जैव तु); व्यसौ. ५. (९) व्यमा. २८१ बृहस्पतिकात्यायनी; व्यक. १३ तु (च) बृहस्पतिकात्यायनौ; ढवि.१६ बृहरपनिकात्यायनों. (१०) शुनी. ४।५२२-५२३; व्यक.१३ कल्प ( वर्त) गुवां (शुद्धा); व्यसो. १० जाति (ज्ञाति); व्यप्र.२३ व्य. १४; विता. २६ न्ने (न्नो). व्यवहारनिर्णयः करणीय इत्येवंपराणि । यथाहुः - 'अभि युक्ताश्च ये यत्र यन्निबन्धनियोजनाः । तत्रत्यगुणदोषाणां त एव हि विचारकाः इति' || 'तत्र तत्त्वमभियोगवि- शेषात् स्यात्' (पूमी. १।३।२७) इति जैमिनिरपि साधु- शब्दाधिकरणे सूत्रयामास । अत एव -- - 'चिकीर्षुर्हित मात्मनः' 'सान्त्वेन प्रशमस्य' 'कोपकारणात्' इत्यादि कुलश्रेणिगणाधिकृतनृपाणामुत्तरोत्तरं प्रामाण्यमधिकम् कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वभ्यस्तूत्तरोत्तरम् ॥ कुलै यत्कृतं कार्य विचार्य तद्यथोत्तरम् । असंतुष्टस्य कर्तव्यं यावद्राजकृतं भृगुः ॥ अनिर्दिष्टाच ये कुर्युर्व्यवहारविनिश्चयम् । राजवृत्तिप्रवृत्तास्ते तेषां दण्डं प्रकल्पयेत् ।। 'अनिर्दिष्टाश्र' इति कात्यायनवचन मधार्मिकाशास्त्रज्ञ. विषयम् | येषां पुनरनियुक्तानामपि नाधर्मशङ्का, राजा- पि मत्कृत्यमेवैते कुर्वन्तीति सामान्यतो येऽनुमन्यन्ते अनुकम्प्या एते इत्युपेश्यन्ते वा । तैरनियुक्तैरपि व्यव हारदर्शने प्रवर्तितव्यमेवेत्याहुः । दवि. ३४० पितामहः अष्टाङ्गकरणम् । तत्र कार्यदर्शनम् लेखको गणकः शास्त्रं साध्यपालः सभासदः । हिरण्यमग्निरुदकमष्टाङ्गं करणं स्मृतम् । तदध्याभ्यानिशं पश्येत्पौरे: कार्य निवेदितम् ।। पौर ग्रहणं स्वराष्ट्रगताऽखिलजनोपलक्षणार्थम् । स्मृच. २७ कुलादिकृत निर्णयः नृपस्थाने परिवर्तनमर्हति पूर्वस्थानगता वादा धर्मतोऽधर्मतोऽपि वा । 643व्यप्रवन् । + व्याख्यासंग्रह: स्थादिनिर्देशन नारदे (पृ. ४२ स्तम्भ: १) द्रष्टव्यः । (१) व्यमा.२८० मनुकात्यायनी. वस्तुतस्तु नारदम्य (नाग्मृ. ११७). (२) व्यक. १३. (३) व्यक. १३ राज (राहु): स्मृचि. : दवि. ३४० निश्च (निणं). (४) स्मृच. २७) सवि.७२-७३; प्रका. १६६ समु.१२. (५) स्मृच. १८ ते (न); मत्रि.६८ नृप (राज); प्रका. १; समु. ७.