८० व्यवहारकाण्डम् सामर्थ्याद् राजैव । अत एवोक्तम् -- क्रोधलोभविवर्जित इति । समर्थेनापि धर्मशास्त्रानुसारिणा भाव्यम् । न क्रोधादिवशेनान्यथा व्यवहर्तव्यमित्यर्थः । एकत्वेऽपि व्यवहारस्य स्वकीयविशेपापेक्षया बहुवचनम् । यह मनुः - 'तेषामाद्यमृणादानम्' (मस्मृ. ८१४) इत्यादि । नारदश्च–‘चतुष्पादश्चतुर्व्यापी' (नास्मृ. ११८) इत्यादि । विश्व.२।१ (२) अभिषेकादिगुणयुक्तस्य राशः प्रजापालनं पर- मो धर्मः। तच्च दुष्टनिग्रहमन्तरेण न संभवति दुष्टपरिज्ञानं चन व्यवहारदर्शनमन्तरेण संभवति । तद्व्यवहारदर्शन- महरहः कर्तव्यमित्युक्तम् 'व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम्' ( यास्मृ. ११३६० ) इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्य ताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आर भ्यते–व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धि- तया कथनं व्यवहारः । यथा, कश्चिदिदं क्षेत्रादि मदी यमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रिय मात्रस्यायं धर्म: किन्तु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मविशेषविधा नार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्म जैर्न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशा देषामप्राधान्यम् । ' सहयुक्त प्रधाने' इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोपो न ब्राह्मणा- नाम्। यथाह मनुः– ‘अदण्ड्यान्दण्डयन् राजा दड्यांश्चै घाग्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति (८।१२८) इति । कथम्? धर्मशास्त्रानुसारेण नार्थशा स्त्रानुसारेण। देशादिसमयधर्मस्यापि धर्मशास्त्राऽविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथा च वक्ष्यति - 'निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः' इति ( यास्मृ. २।१८६) । क्रोधलोभविवर्जित इति । धर्मशास्त्रानु सारेणेति सिद्धे क्रोधलोभविवर्जित इति वचनमादरा र्थम् । क्रोधोऽमर्षः । लोभो लिप्सातिशयः ।
- मिता.
- दीक. अवतरणिका मितावत् ! ध्यम नृपशब्दार्थों
मितावत् ।. (३) व्यवहारान् वादिप्रतिवादिनोर्भाषोत्तरक्रियात्म कान्विवादान् नृपो जनपदपरिपालको, विद्वद्भिर्व्यवहार शास्त्रार्थ ज्ञैर्विप्रैः सहितो लिखितसाक्ष्यादिप्रमाणपुरःसर तया क्रोधलोभादिविचारक दोषगणमपहाय पश्येत् परी क्षेत । यद्यपि धर्मशास्त्रानुसारितयैव क्रोधादिवर्जनं प्रासं, तथाऽपि प्राधान्येन क्रोधादिवर्जनस्य पृथगुपादानम् । न हि क्रोधादिमान् धर्म शक्नोति व्यवस्थापयितुम् । | अतो धर्मशास्त्रोक्तलिखितसाक्ष्यादिप्रमाणगण इव क्रोधा दिविरहो नृपवर्ती धर्मव्यवस्थितौ प्रधानं साधनम् । मूल श्लोके व्यवहारान्नृपः पश्येदिति ऋपिणा परीक्षा परपर्यायो व्यवहारो व्यवहारपदेनोच्यते । ब्राह्मणानां यद्यपि व्यवहारदर्शनकर्तृत्वं प्रतिपाद्यते तथाऽपि तेषां नाधिकारः किन्तु राज्ञामेव, तद्गामिफलस्मरणात् । तस्मादृत्विजां यथा यागे कर्तृत्वमेवं ब्राह्मणानां व्यवहार दर्शने धर्मशास्त्रानुसारेणेत्युक्तम् । अप. (४) यद्यप्येषां विद्वत्तया, ब्राह्मणत्व बहुत्वाभ्यां सभायां च साधुत्वेन सभ्येभ्यो न भेदः तथाप्यनियुक्तत्वेन तेभ्यो भेदो व्यवसेयः । ते हि नियुक्ताः । धर्मशास्त्रानुसारेणेत्येतदौशनसाद्यर्थशास्त्रानुसारस्य निवृत्यर्थ न पुनर्धर्मशास्त्रान्तर्गत राजनीत्याद्यर्थशास्त्रानु
- स्मृच. १४,२४
(५) अत्र व्यवहारशब्दो रूढियोगाभ्यां निर्णय फलकमार्थप्रत्यर्थिविवादमाचष्टे । सरणस्यापि । पमा ६ (६) मिता. टीका–तस्य व्यवहारस्य स्वरूपप्रकारे- तिकर्तव्यताऽकाङ्क्षायामुत्तराध्याय आरभ्यते । अथ व्यवहारान्स्वयं पश्येदित्यादिना प्रयोगविधिना साङ्गो पाङ्गो व्यवहारः कर्तव्य इति विहितः पूर्वस्मिन्नध्याये । तत्राङ्गाकाङ्क्षायां तदर्थमुत्तरारम्भ इति । अयमभिप्रायः । अनयोरध्याययोर्हेतुहेतुमद्भावसंलक्षणः संबन्ध इति । व्यवहारान्स्वयं पश्येदित्यनेन पौनरुक्त्यं परिहरति । पश्ये- दिति । पूर्वोक्तस्यानुवाद इति । अत्रैषा वचनव्यक्तिः। व्यवहारान्स्वयं पश्येदिति यत्तद्वक्ष्यमाणधर्मेण सद्देति । तमेव धर्मविशेषमाह - विद्वद्भिर्वेदव्याकरणधर्मशास्त्राभि ज्ञैरिति । विद्वद्ब्राह्मणसाहित्यरूपधर्मविधानमित्यर्थः । स एव धर्म इतिकर्तव्यता नामाङ्गानुष्ठानप्रकारः । एवं च
- विता. स्मृच (४.१४) बत् ।