पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः २०१ सन्दानं बन्धनं उत्तमस्यापि उपचयानङ्गीकारेण कौत्तिक | देशकालभोगच्छलेन देशादिव्याजेन, न चातिहरेयुः अनाथद्रव्यं नातीव हरेयुः । साक्ष्यादिभावेनोपगच्छन्तः पुरुषास्तत्तद्विद्याबुद्धिपौरुषाभिजनकर्मणामतिशयानुरोधेन धर्मस्थैर्माननीया इत्याह - पूज्या इत्यादि । एव बन्धनरूपत्वात् सन्दानं कुत्तेत्युपचर्यते । सन्दानं नाम त्यागमात्रमिति केचित् । अत्रायं विशेषः - यद्यनयोः कौत्तिकोत्तमयोर्विद्यते समय: 'उपचयश्चेन्मयोत्तमेन सो- ढव्यः अपचयश्चेत्त्वया कौत्तिकेन सोढव्य' इति, तदा संविदनुसरणे उपचये विद्यमानेऽपि विष्णुवचनानुसारेण पादमात्रोपचय एव स्वाम्यं कौत्तिकस्य । तथा च विष्णुः- पौदमात्रोपचये कौत्तिकस्य स्वाम्यम् । इति । अत्र भारुचिः -- सोऽयमुपचयः कुत्तातः पादमात्रं चेत्तस्मिन्नेवोपचये उत्तमो मनसा 'इममुपचयं कौत्तिको गृह्णीत, अन्यदा आयनाशयोः स्वाम्यधीनत्वं न तु कौत्तिकस्य | पादाधिक्य एव स्वाम्यात्तस्य' इति स्मरति । तदा तस्मिन् पादमात्रोपचितद्रव्ये उत्तमस्य स्वत्व निवृत्तिः परस्वत्वापत्तिपर्यन्ता भवतीति तात्पर्य मिति । अयमाशयः - मानसिकमपि दानं त्यागात्मकं स्वत्वापादकमिति वैष्णवं मतमिति । उत्तमो मनसाऽयं कौत्तिक इममुपचयं गृह्णात्विति वदता भारुचिना यावत्युपचिते द्रव्ये उत्तमस्य मानसिकत्ल्यागः तावत्यपि स्वत्वं वैष्णवं पादमिति मतम् । ततो न्यूनेन न भवि तव्यमिति । अत्र केचिदाहुः - अनेनैव न्यायेन कुत्तायाः अपचये विद्यमानेऽपि पादमात्रमुत्तमेन मोढव्यम् । ततो न्यूनं दूरत एव तत्राधिकमैच्छिकमिति विष्णुवचनस्य तात्पर्यार्थ इति । सत्रि. १६०-१६६ कौटिलीयमर्थशास्त्रम अनावेदितकार्यविशेपा ग्राह्या: सप्तानाम्, अनाथान। योगक्षेमचिन्तकरहितानां, अनभिसरतां स्वदुःखनिवेद नाय धर्मस्थमनभिगच्छतां, कार्याणि, धर्मस्थाः कुर्युः । श्रीमू. मनुः राशा व्यवहारः स्वयं नोत्पाद्यः । अन्योत्पादितो न निगरणीयः । नोत्पादयेत्स्वयं कार्यं राजा नाऽप्यस्य पूरुषः । नं च प्रापितमन्येन ग्रसेतार्थं कथञ्चन || ( १ ) अथ किं राजा स्वपुरुषैर्वान्विष्य कार्यिणो व्यवहारयितव्याः, न, प्रतिषेधात् । यथाह मनुः -- नोत्पादयेदिति । विश्व. २१५ (२) कार्य विवादवस्तु । तद्राजा स्वयं न प्रवर्तयेत् । कस्यचिद्वेष्यस्योपघातार्थं धनिनो वा धनग्रहणार्थं न तदीयमृणिकमन्यं वाऽपराद्धमुद्वेजयेत् । एष ते धारयति किमिति ममाग्रतो नाकर्षसि ? एतेन वा तावदपराद्धं यावदहमेनं निपातयामीत्येवं राज्ञा न कर्तव्यम् । सत्यपि द्वेषे धनलोभे वा । न च प्रापितमावेदितमन्ये- नार्थिना ग्रसेत निगिरेन्नोपेक्षेतेति यावत् । अवधीरणायां निगिरेदिति प्रयुज्यते । तत्समानार्थश्च ग्रसतिः । तथा च वक्तारो भवन्ति यावत्किञ्चिदस्योच्यते तत्सर्वे निगिरति न किञ्चिदयं प्रतिवक्ति | ★देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधिताना- मनाथानामनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देशकालभोगच्छलेनातिहरेयुः । पूज्या विद्या बुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः । (१) मस्मृ. ८४३ क., ग, घ. पुस्तकेषु 'ग्रसेदर्थं ' इति पाठः; शुनी. ४१५६४ पू.; विश्व २१५ पू. मिता. २२५ नाइप्य . एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । | (वाऽप्य); गोश. नाऽप्यस्य पूरुषः ( नान्यस्य कस्यचित् ); समाः सर्वेषु भावेषु विश्वास्या लोकसंप्रियाः देवब्राह्मणेत्यादि । व्यमा.२९६ ( स्वयं नोत्पादयेत् कार्य राजा वा नाऽस्य पूरुषः ) पू.; अप. २१५; व्यक. १९; सभा. १३१२७; गौमि. १३।२७ पू.; स्मृच. २७ च ( चा ); सुवो. २१'५ 'न वाऽप्रापितमन्येन' इत्यपि पाठः; व्याने. तार्थ ( दर्थ ); स्मृचि.५; व्यसौ. १४; वीमि. २१५ व्यनिवत्; व्य. ३५-३६ नाऽप्य ( वाप्य ) तार्थ ( दर्थ ); व्यउ. २२ पृ.) विता. ३६ पू.; प्रका. १६ स्मृचवत् ; समु. १२. (१) सवि. १६६. पूर्वोक्तानि विष्णुवचनानि विष्णुस्मृतौ नोपलभ्यन्ते । (२) कौ. ३१२०. अन्ये तूत्तरं लोकार्धमेवं व्याचक्षते । न च प्रापितं व्यवहारादन्येन प्रकारेणार्थी धनं ग्रसेत स्वीकुर्यात् । यदि हि राजा छललेशोदेशिकया धनदण्डे प्रवर्तेत ततः पर लोके दोषो द्रष्टव्यः । राज्ये चोपघातः स्यात् । । अथेदमपरं पायाख्यानम् | नोत्पादयेत्स्वयं