१९४ व्यवहारकाण्डम् स्वपक्षं साधयसीति पृष्ठो न संधत्ते कथान्तरं प्रस्तौति, करोति । यश्चापि निष्पतेत् । वक्ष्यमाणमेव क्रियापदं स विचारावसानेन किल मे पराजयो भवतीति कालमुप क्षिपामीति तस्यापि पराजय एव । अथवाऽपदेशो व्याजस्तमपदिश्योपन्यस्य योऽपसरत्यधुना मे महती पीडा समुत्पन्ना न शक्नोमि प्रतिवक्तुम् । अलीकादिना वा प्रस्थितः, सोऽपि जीयते । मेधा. हीयत इति । यदेवोक्तं – 'पुनर्यस्त्वपधावती'ति स एवार्थ: 'यश्चापि निष्पतेदिति | पुनर्वचने प्रयोजकमु क्तम् । अत्यन्तपौनरुक्त्यं मा भूदिति कश्चिद् विशेष आश्रयितव्यः । मेधा. (२) तथा बहुविधं अपदिश्य उक्त्वा पुनः स्वय- मेवावधारणादयमेवात्र हेतुर्ग्राह्य इति । प्रणिहितं विचा- रितम् । मवि. (२) स्वकीयं प्रश्नं परेण निरुच्यमानमाकलय्य नेच्छे- त्तदनिच्छाविभावकं कोलाहलादि कुर्यात् । निष्पतेत् सभातः पलायेत । मवि. (३) देश्य एवोपदेश्यस्तमपदिश्योक्त्वा अपधावति लायते । पुनर्वदति मद्धस्तात्सुवर्ण गृहीतमित्युक्त्वा मत्पुत्रहस्ताद् गृहीतमिति वा सोऽपि तस्मादर्थात्प्रहीयत इत्यनुवादः । Xमच. (४) अपदेश्यमपदिश्य वक्तव्यमुक्त्वा तत्साधने यः पुनरपधावति अपसरति । पूर्व स्वयमुपन्यस्तं सदस्यैः सम्यक् प्रणिहितमवधृतमर्थं तैः पृष्टः सन्नाभिनन्दति न सम्यङ्मया बुद्धमिति वदति सोऽपि हीयत इति संबन्धः । नन्द. (५) अपदिश्यापदेश्यं कार्याकार्य न जानाति, वाच्या- घाच्यं वा न जानाति । पुनः यः पुनः धावति । स्थानात् स्थानान्तरं गच्छति । च पुनः सम्यक् प्रणिहितं अर्थ सम्यक्प्रकारेण दत्तं द्रव्यं पृष्टः सन्नाभिनन्दति न कथयति । भाच. असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यचापि निष्पतेतू || (१) असंभाषणार्हे देशे उपहरादौ साक्षिभिः सह संभाषत एकाकी तद्भेदाशङ्कया | निरुच्यमानं पृच्छय मानं निरूप्यमाणं वा प्रश्नं विचारवस्तु नेच्छति किञ्चिद् राजकार्यमुद्दिश्य राजपुत्रमान्याग्रनुग्रहेण च काललाभं x शेषं गोरावत् ।
- अत्रत्यं गोराव्याख्यानं 'अंदेशं यश्चे'ति श्लोकं द्रष्टव्यम् ।
ब्यक, मच., भाच. गोरागतम् । ( १ ) मस्मृ. ८/५५; व्यक. ३३ रुच्य (रुध्य ); स्मृसा. १२२ मिश्च (भिय) नेच्छेयश्चापि (नेक्षयस्यापि ); स्मृचि. ४१ नारद: ; व्यसौ. ३२ व्यकवत् ; व्यप्र. ७४; समु. २३. १ + सम्यकप्रणिहितं चार्थमनाकुलं निश्चितमुक्तम् । (३) यश्च भाषार्थस्थिरीकरणाय नितरामुच्यमानं प्राचिवाकेन प्रश्नं नेच्छेत् । यश्च निष्पतेत् उक्तांश्च व्यवहारान् पुराऽनाख्याय यथा स्थानात्स्थानान्तरं गच्छेत् ।
- ममु.
(४) निरुच्यमानं विकल्पेनोच्यमानम् । +नन्द. ब्रूहीत्युक्तञ्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात् स हीयते ।। (१) उक्तार्थ एव श्लोकोऽयं श्लोकान्तरैर्दृश्यते । पुनर्वचने च प्रयोजनमुक्तम्- 'बहुकृत्वोऽपि पथ्यं वेदि- तव्यमि'ति । अक्षरार्थस्त्वर्थिना निःशेषिते पूर्वपक्षे प्रति- वादी ब्रूह्यस्मिन्वस्तुनीति पृष्टो यदि न ब्रूयात्पुनः पुनः पृच्छ्य मनोऽपि, यो हि सम्यगुत्तराभावान्मिथ्योत्तरवा दित्वादमुनैव मे पराजयो भवति । तूष्णीम्भूतस्य तु मे संशय एच पराजये । इत्यनया बुद्धया नोत्तरं ददाति सोऽपि जीयते । वक्ष्यति चात्र कालावच्छेदं 'न चेत्त्रिपक्षात्प्रवृयादिति सद्यो ह्याकृष्टस्य पूर्वपक्षार्था- नवबोधादुत्तराप्रतिपत्तेर्युक्तं कालहरणम् । अत्र च दिवसैः पञ्चभिर्दशभिर्द्वादशभिर्वा ईषदीषद् वदतस्त्रिपक्ष समातिः, न त्वियन्तं कालं तूष्णीम्भाव एव । यश्चातो ऽधिकः कालः । संस्थितोऽपि कच्चित्संवत्सरं प्रतीक्षेताप्र- तिभायामिति न युक्तमादर्ते यतोऽप्रतिभा प्रतीक्षाकार-
- पूर्वार्धव्याख्या गोरावत् । + शेषं गोरागतम् ।
x अत्रत्यं गोराव्याख्यानं 'अदेशं यश्चे'ति श्लोके द्रष्टव्यम् | (१) मस्मृ. ८/५६; व्यक. ३२; स्मृसा. १२२; व्यचि. ३१ क्तश्च (तोपि); व्यनि. न ( नोब्रू) विद्या (विन्द्या) नारदः; स्मृचि.४१ नारद:) व्यसौ. ३२; वीमि. २११५; व्यप्र. ७४; समु. २३ व्यचिवत्. १ अमत्यन्ताप २ मानें. ३ त प्रतिभावयेदिति.