वादहानिः १९५ गम् । सा संवत्सरादूर्ध्वं भवतीति किमित्यकारणम् | न ज्यते तदा कियत्तमिति | साहसकारी तु राज्ञाऽवश्वं i चैष नियमः केनचित्प्रेमाणेनावगम्यतेऽप्रतिभानवतः संवत्सरेण प्रतिभा भवतीति । तस्मात्तावन्त्येवाहान्युपेक्षा युक्ता, यावद्भिः पूर्वपक्षार्थावधारणं भवत्युत्तरं च प्रति- भाति । एतच्चामुकस्य मन्दधियोऽप्येतावन्मात्रैरहोभिर्भ वतीति, नाधिकं कालमुपेक्षणीयम् । पूर्वपाक्षिकस्य तु तदहरेव स्वार्थविनिवेशनं युक्तम् । यत इदमेप मे धार- यतीदं वाऽनेन ममापकृतमिति निश्चितं तस्य भवति । स्वेच्छया ह्यसौ प्रवर्तते केवलं तस्मै स्वपक्षमावेदयते । किमित्यनिश्चितः स्वार्थी भवति । उत्तरपाक्षिकस्त्वविदि तसंबन्धस्तदानीमेव राजपुरुषैरानीयमानः कथमिव स्व- परपक्षौ निश्चिनुयात् । पक्षद्वयनिरूपणं हि तदस्य तदा नीमेवापतति । नान्यथोत्तरपाक्षिको भवति । तस्मात्पूर्व पाक्षिकस्य साध्ये वस्तुनि तदहः पूर्वपक्षसमाप्तिर्द्विदिवस- लाभो वा । उभावपि चैतौ पक्षौ स्मृत्यन्तरपरिगृहीतौ । तथा ह्याह - 'सुनिश्चितबलाधान: पूर्वपक्षी भवेत्सदा । दशाहं द्वादशाहं वा स्वपक्षं परिशोधयेत्' इति ॥ तथे दमपरम् 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' ( यास्मृ. २|७ ) । या तु संवत्सरप्रेतीक्षा सा मूलासंभ- वादप्रमाणम् । न हि व्यवहार स्मृतावष्टकादिवद्वेदमू- लता शक्यते वक्तुम् । अकार्यरूपत्वादर्थस्य | प्रमाणा- न्तरविषयत्वे च तदसंभवः प्रतिपादितः । एषाऽपि त्रिपक्षोपेक्षा न सर्वत्र । यत उक्तम्- 'साहसस्तेय. पारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ ( यास्मृ. २११५) इति । साहसद हि चिरपेक्ष्यमाणे पैरमपराच्नुयात् । अतः सद्यो विवादो विधीयते । न चात्र स्मृत्यादयोऽनु- तरहेतवः संभवन्ति । साहसादिकारणं हि तदानीमेव राजानं वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्रायु- पहारेण तदुपेक्षायां नाशाशङ्का भवति । साक्षिणस्त त्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशान्तरं गता नामजात्यादिभिर्न विज्ञायन्ते । ततः स्वाभाविक प्रमाणा- भावः । - किञ्च ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । क्रमेण च संशुद्धौ स्मृतिरुपयु- १ कारणेन ना. २ परीक्षा ३ पर. ४ नुक्तहे. " निग्रहीतव्य इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं साहसादिषु सद्य इति स्थितम् । तदुक्तम्- 'गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । ऋणादिषु हरे- त्कालं कामं तत्वबुभुत्सया ॥ यदा संकुल: पूर्वपक्षो भवति तदा गहनत्त्वान्न शक्यते ग्रहीतुमनाकुलो विलुप्त ऋमोऽपि गृहीतः प्रतिवचनकाले महत्त्वान्न शक्यते सर्वेण स्मर्तुमिति स्मृत्यन्तरस्यार्थः । उक्तं च न विभावयेत् । साध्यं वस्तु निर्दिश्य न साधयति साधनस्याभावात् । विपक्षे वा भावात् । न च पूर्वापरं विद्यात् । उक्तमेतत् । तस्मादर्थाद् व्यवहारवस्तुनः स हीयते पराजितो भवतीत्यर्थः । मेधा. (२) न च पूर्वापरं एतत् प्राग्वाच्यमेतत्पश्चादिति जानीयात् । मवि. (३) उक्त साध्यं न प्रमाणेन प्रतिपादयति । पूर्व साधनम् | अपरं साध्यम् । तद्यो न जानाति । असाध नमेव साधनत्वेन निर्दिशति । असाध्यमेव मानेन 'शशशृङ्गकृतं धनुज्ञेयम्' इत्यादि साध्यत्वेन निर्दिशति स तस्मात्साध्यादर्थाद्धीयते । भमु. (४) पूर्वापरं साध्यं न विद्यात् । यथावस्तु न विजानीयात् । +मच. ज्ञांतारः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैर्हीनं तमिति निर्दिशेत् || (१) शातार: साक्षिण : पुरुषा मम सन्तीत्युक्त्वा यदोच्यते कथ्यतामिति तदा तूष्णीक आस्ते न तान् + शेषं ममुवत् । भाच. मचगतम् । । (१) मस्मृ.८।५७ क. ग. ध पुस्तकषु ज्ञातार : ( साक्षिणः) मिति (मपि) इति पाठः; व्यक. ३३ ज्ञातारः सन्ति मे (सन्ति ज्ञातार ३) मिति (मपि); स्मृच. ४८ हीनं तं (हीनोऽसौ ) शेषं व्यकवत् ; ममु. मस्मृवत्; स्मृसा. १२२ व्यकवत् ; व्यवि ३. ३१ व्यक्वत् ; व्यजि. स्थ: (स्था:) शातारः सन्ति मे ( सन्ति शातार इ) नारदः; स्मृचि. ४१,४६ मिति (मपि ) नारदः; व्यसौ. ३२ व्यकवत् ; वीमि. २०१५व्यकवत् ; व्यप्र. ७४ मिति (मपि ) सन्ति शातार इत्युक्त्वेनि कल्पतलिखित- पाटस्त्वनाकर एव । आचार्य मेधातिथिभ्यामभृतत्वात ; प्रका. ३० स्मृचवत्; समु. २३ स्मृचवत्.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति