व्यवहारकाण्डम् वत् अनुयोज्या इति । तद्विद्वानपि न दुष्यतीति । यतो मन्वादय एवंविधां वाचं वदन्ति, यथैते शूद्रवदाचरणीया इति । ते च धर्माधर्मयोः प्रमाणम् । तैश्च सत्यं वदि तव्यं, तच्च यथाविहितं, तत्र म एव धर्मो, यत्र चानृतं तत्रानृताभिधानमेव धर्म इति । मेधा. (२) तदेतत्साश्यमन्यथा जानन्नपि मनुष्यो धर्मेण दयया हेतुभूतयोपाधिरहितो व्यवहारेष्वन्यथा ब्रुवन् न स्वर्गात् लोकात् भ्रश्यति । यस्मादेतन्निमित्त विशेषेण अनृताभिधानम् । एतां दैवसंबन्धिनीं वाचं मन्वादयो वदन्ति । अन्ये तु प्राविवाकविषयमिदं व्याचक्षते, प्राड्विवाको गोरक्षकादिषु ब्राह्मणेषु सच्छ्रद्रप्रश्नं कुर्वन्न धर्महानिं प्राप्नोति । ऋगोरा. (३) तत्साश्यं धर्मतो धर्मार्थं जानन्नप्यन्यथा वदन् स्वर्गान्न व्यवते । यतस्तत्राऽनृताऽपि वाग् दैव्येवेति वदन्ति । मबि . (४) अर्थेषु चातुर्वर्ण्यवधपर्यन्तेषु । अन्यथा जान- न्नपि अन्यथा तदनृतं धर्मतो हेतोर्वदन् स्वर्गान्न च्यवते । तां धर्मानुसारिणी वाचं दैवीं सत्यां वदन्ति । नन्द. (५) तद्वदन्निति सार्धेनाह । तत्साक्ष्यं धर्मतोऽर्थेषु वर्णिरक्षाद्यन्यतरधर्मार्थेषु जानन्नप्यन्यथा बदन्नरः स्वर्गान्न ध्यवते । भाच. शूद्रविक्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद् विशिष्यते ॥ (१) तत्र नानृतं वदेदिति यः प्रतिषेधः तस्याशूद्रा- दिविषयताऽनेनोच्यते । न पुनरनृतवदनं विधीयते ।
मेधातिथेरेवायं संक्षेपतोऽनुवाद: । मच. गोरागतम् । (१) मस्मृ. ८/१०४; गोरा. तक्तौ (चैव); अप. २१८३ र्ताक्तौ (चोक्तो); ब्थक.५९ (शूद्रविक्षत्रियाणां च ऋोक्ती च भवेद्धः); मभा. १३१२५ यत्रत्तोंक्तौ (यत्रोक्तार्थ) सत्यात् (तत्र); स्मृच.८९ यत्रर्तोक्तौ (यत्रोक्ते तु); पमा ११३ यत्र- र्तोक्तौ (यथोक्तौ तु); ग्यचि.५६ तद्धि... ते (तत्सत्यादतिरि- च्यते); सवि.१५९; चन्द्र. १५२ (शुद्रविक्षत्रियाणां च यत्रोक्तौ तु वधो भवेत्); ब्यसौ. ५६ क्षत्रविप्राणां (क्षत्रियाणां च) र्तोक्तिौ (चोक्तौं); वीमि. २१८३ व्यचिवत्; ध्यप्र. १३८; विता. १९१ तत्र... नृतं (तत्र तत्रानृतं ब्रयात्); प्रका. ५८ यत्रर्तोक्तौ (यच्चोक्ते तु); समु. ३६ स्मृचवत्. १ नाच. - न चात्र तथा सति प्रतिषेधेनैकवाक्यता बाध्येत । अधिकारकल्पना च स्यात् । अन्ये तु नैमित्तिकधर्माधिकारं मन्यमानाः कल्पनामपवदन्ते । का पुनरत्र निमित्तश्रुतिः । तत्रेति । तस्य बधविशेषणत्वात् । न वैधोस्याऽसतो निमित्तत्वानु पपत्तेरतश्च कृते वधे पश्चात्तद्विषयमनृतं वक्तव्यमित्यर्थ आपतति । तत्वनिष्ट॑म् । ननु च यत्रेति व्यवहारवस्तु निर्दिश्यते । पुनस्तत्रेति तदेव प्रतिनिर्दिश्यते । ततश्च यस्मिन् व्यवहारे पराजिताः सन्तो वधार्हा भवन्ति तस्य नानुपपन्नो निमित्तभावः । अत्र वदन्ति वधार्हेष्वनुतमिप्यते, यतोऽनॅनुरूपं पापीयसो जीवन मिति । यस्त्ववधार्होऽनवकाशात् पुरदास्यादिस्खलितादनृता- ख्यापनाय रौंजानः स्वल्पापराधात् न वार्तयन्तीत्युप- पत्तिः, राजत्वात्क्रोधदण्डस्य चाशास्त्रीयत्वादस्थित प्रमाण- तया निश्रयाभावो न तस्यापि निमित्तत्वोपपत्तिरतः प्रतिषेधशेपतैव न्याय्या । गौतमीये त्वनृतविध्याशङ्काऽपि नास्ति, 'नानृतवदने दोषो जीवनं चेत्तदधीनम्' इत्येव- मादिप्रतिषेधे सत्यानृतयोः कामचारप्रसङ्गे सत्यवचनेन 'वैधे निमित्तभवः प्रतिपद्यमानो 'न हिंस्यात्सर्वभूतानी' ति प्रतिषेधव्यतिक्रमभये चानृतं प्रति इति युक्तिमत् । तेनेदं कृतं, न चेदसौ पृष्ट आचष्टे, न पुनर्हन्ति अनंश्च कथं हिंसादोषेणानुपज्यते । अथासत्यपि स्वातन्त्र्ये तद्वच- नेन राज्ञा हन्यमानत्वात्तद्धेतुभावापत्या प्रयोजैकंकर्तृत्व- मिति चेत् ? न, सर्वो हेतुः प्रयोजको, धनेन कुलं वि द्यया या इति भवति विद्यायशसोर्हेतुती प्रयोक्त्री । ननु चान्य एवायं लौकिकः फलोत्पत्तियोग्यतालक्षणो हेतुभावः । अपि तु द्रव्यगुणेष्वत्रापि क्रिया श्रूयते अग्निना पाक इति । साऽपि स्वरूपेण, सिद्धरूपाभिधा- नात् कृदन्तैर्भावस्य । अन्यश्चायं शास्त्रीयः कर्तृव्या- पारस्य प्रयोजको हेतुर्न तु तत्प्रयोजकत्वमेवमित्यर्थः । यदि तावत्प्रेषणाध्येषणे आज्ञाप्रार्थनारूपे प्रयोजकत्वम् ; १ 'अधि... वदन्ते' इत्यशो नास्ति २ वधस्तस्या ३ ते १- वधौ. ४ मतद्विषयं वा ऽ नृ. ५ ऽठं न. ६ स्तुतिर्नि. ७ आनुरूपापी. ८ घार्हान ९ दनुहतदण्डता. १० वा जनैः स्व. ११ तयित्वोपपत्तिरा. १२ परिमा. १३ (०). १४ भावं. १५ मतया १६ यत. १७ मत्वेनेदं. १८ अथ. १९ जिक. २० तुना. २१ कफ २२ ताहेतुलक्षणे. २३ त्यर्थम्.