साक्षी ३२१ भवति । यथा यस्मिन् देशे यस्मिन् काले यस्मिन्पत्रे शताभियोगे पृष्टः स साक्षी तस्मिन्नेव देशाधिके यद्येव- माह- नाहमस्य शतग्रहणं जानामि किन्तु पञ्चाशदिति न्यूनं, सार्धशतग्रहणं जानामीति चाधिकमेवाभिधत्ते । तदाप्यन भिहितमेव उभयत्राप्यन्यतरप्रतिज्ञासत्यताया विनिगमकाभावात् । स्सा. ११९ (४) त्वं मह्यं हेम्नां शतस्य धारयसि एप च तद्वेदे त्युद्दिष्ट: साक्षी यत्र दिव्यं निगदति संख्यायां तु मुह्यते तत्र द्रव्यांशे तन्निगद निरस्त संशयमपहायानि गीतसंख्यांशे मानान्तरमनुसरणीयमित्येके, द्रव्यांशेऽपि क्रियान्तरमिति संप्रदाय: । · व्यचि.५८ न वयमिति उभयेषां च सतां साम्यं किं पुनर्विवक्षया समक्षदर्शन मिति विनिश्चय एव नोपपद्यते । ततश्च तन्नि- मित्तोत्पन्नस्य साक्ष्यस्याभाव एवेति- साक्ष्यं व्यावर्तते साक्षिण एव ते न भवन्तीति । एवं च कृत्वा प्राक्प्रति ज्ञातभेदादसाक्षिण इति समर्थितं भवतीति । अभा. ७१ , (२) स्मृतिमतां साम्यं यस्मिन् व्यवहारे दृश्यते, तीक्ष्णत्वात् प्रत्यवाय बहुलत्वात् औदासीन्याध्दीनत्वाच्च साक्षिधर्मस्य विरुद्धवादिनोर्गणयोः, तत्र योऽन्यैः साक्षिमि दैवेन था शुध्यति तद्वचो ग्राह्यम् । स च वादी जयति । इतरः साक्षिवर्गः स च पक्षो यस्य स दण्ड्यः । अथवा साक्ष्यं व्यावर्तत इति ततः परं साक्षिव्यापारी नास्ति, तत्र दैवेन वान्यैर्वा साक्षिमिर्नेयः, दण्ड पराजि तस्य साक्षिवर्गस्य | नाभा. २/२०७ साक्षिरहितो वाद्री पराजीयते स्वैसाक्षिवर्जितो यस्तु दैवाद्वादी कथञ्चन । उद्धारं तस्य नेच्छन्ति दिव्येनापि मनीषिणः ॥ साक्ष्यस्य परीक्षा ^निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । न ब्रूयादक्षरसमं न तन्निगदितं भवेत् * ॥ (१) अतो भाषायामुत्तरे वा यावानथ निर्दिष्टस्तस्ये त्येवार्थे यदि साक्षित्वमागतः स्वीकृतस्तावन्तमर्थ न ब्रूयात् तदा तेनाऽकथितमेव भवेदित्यर्थः । व्यमा. ३१२ (२) साक्ष्य आगते साक्ष्यवादावसरे | अक्षरसमं अक्षरानुरूपं, पृष्टार्थमिति यावत् । अनेनाष्टृष्टार्थसमर्पक मपार्थमित्युक्तम् । स्मृच. ९० (३) तथा यत्रापि न्यूनातिरिक्ताभिधानं साक्षिणो
- अत्रत्या अभा.व्याख्या लेखकप्रमादान्मध्ये त्रुटिता तस्मान्नोदूधृता ।
(१) नास्मृ. ४२३१. (२) नासं. २१२०८; नास्मृ. ४ | २३२; अभा. ७२ रसमं (रं सम्यक् ) ; व्यमा. ३१२ चेत् (तत्) आगते (मागत:) : ३३३ आगते (मागतः); व्यक. ६० आगते (संग्रह); स्मृच. ९०; पमा. ११४ बृहस्पतिः; स्मृसा. ११९, १२१ आगते (मागतः); व्यचि. ५७ स्मृसावत् ; सवि. १४७ कात्यायन: ; चन्द्र. १५२ (निर्दिष्टश्चार्थजातश्च साक्षी चेत्साक्ष्यमागतः ।) समं ( पदं ) दितं (दनं); व्यसौ. ५७ गते (गत:); वीमि. २१७९ चेत् साक्ष्य आगते (साक्ष्यत्वमागतः) न तन्निगदितं ( तन्नैव गदितं); व्यप्र. १२९ स्मुसावत् ; प्रका. ५९; समु. ३७; विडय. १४ उस.
व्य. का. ४१ (५) निर्दिष्टेष्वर्थजातेषु गोभूहिरण्यादिषु साक्ष्य आ गते साक्षिप्रश्नकाले यदि साक्षी न ब्रूयात् अक्षरसमम् । 'अयं मम हिरण्यं धारयति अयं मे साक्षी' इति स पृष्टः 'सत्यं जानाम्यहं न न जानामी' त्यक्षरसममेतत् । अ- तोऽन्यथा ब्रूयात् 'अस्य ग्रहीतुर्वाह्यं नीयमानं दृष्टमिति, न तन्निगदितं भवेत् न तत् साक्ष्यं दत्तं भवति । अक्ष- रानुरूपं भापयितव्यः सः । नाभा. २१२०८ "देशकालवयोद्रव्यप्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात साक्ष्यं तदपि चान्यथा ॥ (१) एवं च ऋणादौ स्थिरकर्मणि अन्यूनानतिरिक्तं पृष्टार्थसमर्पकं साक्षिवचनं प्रमाणं नान्यदित्यनुसंधेयम् । स्मृच.९१ -- (२) देशश्र कालश्च वयश्च द्रव्यं च प्रमाणं चाकू- तिश्च जातिश्चेति देशादयो द्वन्द्वाः । तेषु विप्रतिपत्तिः स्यात् अन्यथा लिखितमन्यथा साक्षी ब्रूयात् - देशे 'गृहे मया दत्तं अत्रेते ज्ञातार ' इति लिखिते 'क्व दीयमानं दृष्टं युष्माभिरि’ति पृष्टाः देशान्तरं यदि ब्रूयुः ' आपणे त्रैविद्यामण्टपे वेति, एवं काले • 'पूर्वाह' इति लिखिते ‘अपराह्न' इति ब्रूयुः, वयसि - 'दम्य'
- वीमि. व्यचिंगतम् ।
विश्व.२१८१३ (१) नासं. २१२०९; नास्मृ. ४ | २३३; व्यक. ६०; स्मृच. ९० चान्थथा (विप्लुतम् ); दीक. ३९ चान्यथा ( कुत्सितम्); स्मृसा. १२१ दीकवत् ; चन्द्र. १५२ दीकवत् ; व्यसौ. ५७ दीकवत् ; व्यप्र. १२९ दीकवत् ; प्रका. ५९ स्मृच. वत् ; समु. ३५ स्मृचवत्.