कुलादीनां समक्षं चेल्लिखितं भावयेत्सदा ॥ असाक्षित्वनिमित्तानि साक्षी ३३३ साक्षिणो बन्धभेदात् बहूनामप्यसाक्षित्वमुच्यते ? सत्यं, एतस्मादेव तर्हि विरोधात् द्वैधे बहूनामित्यादिकमप्यु- भयोः सद्भावे विषयत्वेन वर्ण्यतामेतत्, साक्षिग्रहणान्त्र तद्वचनस्यापि ग्रहणमर्थप्राप्तमनूद्यते । वचनग्रहणार्थमेव साक्षिणो ग्रहणात् । तेन गृहीतानां तुल्यगुणानां माक्षिणां मध्ये यद्येकोऽन्यथा ब्रूते, तदा बहूनामेवाप्यसाक्षित्व मित्या- दिविरोधात् समानम् | किन्तु सकलप्रामाणिकव्यवहार- विरुद्धत्वादन्यार्थस्याप्यन्यथा समाधीयते । त्रयाणां मध्ये यद्येकस्यान्यथावादः स्यात्तदा इतरयोर्मध्ये एकस्यैवान्य- श्राबादनात्तुल्यत्वेन तदपरस्यैकस्य निर्णयः स्यात्, एक- श्रासाक्षी इत्युक्तं प्राक् | तेन साक्षिवचनभेदे यत्रैको- ऽधिक: स्यात्तत्र भेदादसाक्षित्वमिति वर्णनीयम् । द्वित्राद्य- धिके तु बहुत्वं परिगृण्हीयादित्यादिवचन मित्यविरोधः । एवं च तुल्यरूपेषु पञ्चसु पृष्टे वेकस्यान्यथावादे तुल्यादेकस्मात् त्रयोऽधिकाः तेन तत्र भवतु निर्णयः । तेष्वेव तु द्वयोर्विप्रतिपत्तावितरेषु त्रिषु द्वयोर्विप्रतिपन्न- समानयोरेकोऽधिक इति भेदादसाक्षित्वं बोद्धव्यम् । वचनवशात्तु पूर्वोक्त एवार्थः । एकैकशः सर्वेपामेव प्रतिपन्नममानत्वादेर्केकस्य प्रमाणत्वान्मिलितानां प्रमाण- व्यमा. ३२५-३२६ - सोक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ॥ (१) अस्यार्थः - एकस्य भाषार्थस्योत्तरार्थस्य वा प्रतिपादं गृहीतानां साक्षिणां वचन विप्रतिपत्तिमात्रेण भेदा- दसाक्षित्वं, न तु समसंख्यानाम् । एकस्याप्यन्यथा वादे सर्वेषां बहूनामसाक्षित्वावधारणात् । अत एवाह-'भेदाद्वि- प्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम्' इति । वचनभेद- वादे चासाक्षित्वमुक्तं, न तु संख्यासमानतापेक्षातः, सर्वत्र निरपेक्षश्रुतेः । नन्वेतद्विरुद्धं, एकस्याप्यन्यथावादे- पीतरेषां संख्यातिरेके निर्णयाभिधानात् । यथा मनुविष्णू 'बहुत्वं परिगृहीयात् साक्षिद्वेधे नराधिपः । समेषु तु गुणो- कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ तथा नारदः -- 'साक्षिणां विप्रतिपत्तौ प्रमाणं बहवो मताः । साम्ये तत् शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ तथा बृहस्पति:- साक्षिद्वैधे प्रभूतास्ते ग्राह्याः साम्ये गुणान्विताः । गुणि- द्वैधे क्रियायुक्तास्तत्साम्ये शुचिमत्तराः ॥ अथ मन्यसे वादिनो: साक्षिग्रहणे विप्रतिपत्तावेतानि, साक्षिणामेव ग्राह्यतया निर्देशात् अतो न बाध इति । एवं तर्हि याज्ञ- वल्क्यविरुद्धमेतत् यथा --' -'द्वैधे बहूनां वचनं साम्येषु गुणिनां तथा । गुणिद्वैधे च वचनं ग्राह्यं ये गुण- वत्तराः' ॥ अनेन गृहीतसाक्षिप्रश्नानन्तरं वचनविप्रतिपत्तौ बहूनां वचनस्यैव ग्राह्यतया निर्देशात् । ननु कथमेकस्यापि भिः कार्य (कार्यं नु) लिखि (लेखि). (१) मिता.२।७० ना (नाम्) नारदः; व्यमा. ३२५ च (तु) ना (नाम्); अप.२।७१ च (तु); स्मृच.८२ च नि ( तु नि); पमा. ११६ ना (नाम्); व्यचि.४१ च नि (मुनि) ना (नाम्) भेदात्सर्वे न साक्षिण: (तदा सर्वेप्यसाक्षिणः); स्मृचि.४५-४६ ना (नाम्) नारदः; व्यत. २१५ ना (नाम्) वें न ( वेंडण्य); सवि. १४० ना ( नाम्) नारद:; वीमि. २१७८ साक्षिणां लिखितानां (लिखितानां साक्षिणां); व्यप्र. ११४ ना (नाम्) वादी (ब्रूते) वें न (वॅडप्य); ब्यउ. ४८ ना (नाम्); डयम १६ भेदात् (भवेत्); विता. १६१ ना (नाम्) वें न ( वेंऽप्य) क्रमेण बृहस्पतिः; सेतु. १२४ च वा (तु वा) वें न ( वेंडप्य); प्रका. ५३ स्मृचवत्; समु.३२ ना (नाम्); विडय. १३ च (तु) वें न (व त्व). त्वाभावात् । (२) तत्र सर्वशब्देनान्यथावादिसहितानामेव बहू- नामसाक्षित्वमुत्तम । न पुनः केवलाना मित्यवगन्त- व्यम । अन्यथा 'धे बहूनाम' इत्यादिवचन विरोधात् । +स्मृच.८२ (३) मिता. टीका - अस्यार्थः, साक्षित्वेन निर्दि प्रानां ' एते साक्षिण' इति पत्रलिखितानां, वादिनां ब्रुवतां तेषां साक्षिणां मध्ये एकोऽन्यथा वादी चेत् ते भेदान्न साक्षिण इति । मुचो. २।६८ (४) अत्र लिखितग्रहणादकृतमाक्षिणां भेदेऽपि न माक्ष्यहानिरित्युक्तम् । सवि. १४० (५) पञ्चस्वेष्वपि साक्षिष्यधिक गुणस्यैकस्याप्यन्यथा- वादित्वे तद्विरुद्धार्थाभिधायिनां सर्वेषामन्येपामसाक्षियम् । अधिकगुणस्याप्येकस्य बहुवाक्यविरुद्धाभिधानादसाक्षि- त्वमिति सर्वेऽपि ते न साक्षिण इति न मन्वादिविरोध
- व्यचि., व्यत., वीमि., सेतु. व्यमागतम् ।
+ पमा. स्मृतिचन्द्रिकैवोद्धृता ।