४२८ क्रियादयोऽपि । यत्र प्रतिमासं पुराणद्वयकलादानरूपाः क्रियाः प्रतीयन्ते, तत्रापि शतं धारयतीति युक्त्या प्रतीयते । तदुक्तम् – 'देशकालार्थसंबन्धपरिमाणक्रियादिभिः' इति । Xस्मृसा. ११३ बृहस्पतिः अंसाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः । शपथान् वा प्रयुञ्जीत उपधां वा प्रयोजयेत् ॥ (१) उपधां शुद्धिम् । व्यक. ७५ व्यप्र. १६८ (२) उपधा युक्तिरिति कल्पतरौ । कात्यायनः लिगोद्देशस्तु युक्ति: स्यात् । श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः । दान कालेऽथवा तूष्णीं स्थितः सोऽर्थानुमोदकः ॥ अर्थिनाऽभ्यर्थितो यस्तु विघातं न प्रयोजयेत् । त्रिचतुःपञ्चकृत्वो वा परतस्तहणी भवेत् ॥ स्वामिना नृपतिर्विमं ऋणोक्तं प्रदापयेत् । ततोऽन्यं दापयेत्पूर्व सकृदुक्ताभिघातिनम् ॥ स्वामिना उत्तमर्णेन उक्तं, धनं मे देहीति याचितं विप्रं विधातिनं क्रमेण दापयेत् । विप्रान्याधमणों- ऽक्रमेणापि इत्यर्थः । असकृत्प्रार्थितमविहितं धनं विप्रो दाप्यः सकृत्प्रार्थितमप्यविहितमविप्रो दाग्य इत्यन्ये । व्यचि.७७ व्यवहारकाण्डम् X व्यचि. स्मृसागतम् ।
- व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे 'साक्षिणो
लिखितं भुक्तिः' इति श्लोके ( पृ. २२७ ) द्रष्टव्यः । (१) व्यक. ७५; व्यचि. ७६; व्यसौ ७०; व्यप्र. १६८ भान् (धै:) प्रयु (नुयु); समु. २६ उत्तरार्धे ( शपथान् वा प्रयुञ्जीत युक्तिलेशमथापि वा ). (२) व्यक.७५; व्यचि.७७. (३) व्यक. ७५ ; व्यचि. ७७ नाऽभ्यर्थितो यस्तु (नैवार्थितो यत्र); ब्यप्र. १६८; विता. १५२ नाभ्य (नैवा). (४) व्यक. ७५; व्यचि.७७ उक्ता (युक्ता). दानं प्रज्ञापनाभेदः संप्रलोभक्रिया च या । वित्तापनयनं चैव हेतवो हि विभावकाः || (१) दानं उत्कोचदानम् । प्रज्ञापनाभेदो येन चिह्वेन ज्ञायते तदन्यथाकरणम् | संप्रलोभक्रिया विषय- चित्तान्तरे (?) तदधिकलोभोत्पादनम् । एतैः कारणैरभि- योज्यभङ्गो शेयः । स्मृसा. ११२ (२) संप्रयोगक्रिया विषयान्तरे तदावरद (?) कोत्पाद- +व्यचि७८ नम् । चन्द्र. १५८ (३) चित्तापन यनं चित्तगोपनम् । (४) संप्रलोभक्रिया साक्षिसभ्यादिभ्यो लोभप्रदर्शनम् । वित्तापनयनं वित्तगोपनम् । ऐषामन्यतमो यत्र वादिना भावितो भवेत् । मूलक्रिया तु तत्र स्याद्भावितो वादिनिहवे || +व्य प्र. १६९ एषामन्यतमो हेतुर्य त्र वादिना प्रतिवादिनाऽधमर्गा- देरुपरि भावित: प्रमाणेन साधितो भवेत्तदा, मूलक्रिया- ऋणापहरणादिरूपा तदुपरि सिद्धैव । एषां तदविना- भावादिति भावः । व्यप्र. १६९ प्रजापतिः अन्वयव्यतिरेकाभ्यां यस्य यद्गमकं भवेत् । सा तु युक्तिस्तस्य भवेत्तथा सर्व विशोधयेत् || शुक्रनीति:
- विशिष्टतर्किता या च शास्त्र शिष्टाऽविरोधिनी ।
योजना स्वार्थसंसिद्धधै सा युक्तिस्तु न चान्यथा ॥ + शेषं स्मृसागतम् । (१) शुनी. ४ | ७२३ वित्ता (चित्ता); व्यक. ७५ वित्ता (चिन्ता); स्मृसा. ११२ वित्ता (चित्ता); व्यचि. ७८ लोभ (योग); स्मृचि. ५० च या (यथा) वित्ता (चित्ता); चन्द्र. १५८ वित्ता (चित्ता) चैव (चापि ) हि (sपि); व्यसौ. ७० प्रज्ञा (विशा) वित्ता (चित्ता); व्यप्र.१६९. ( २ ) व्यक. ७५ तो वादि (तैर्वापि); व्यसौ. ७०; व्यप्र. १६९. (३) प्रका.६१ तस्य (तत्र); समु. २६ सा तु(सात्र). (४) शुनी. ४।७२२.