व्यवहारकाण्डम् ५९२ द्रष्टव्यः, पणानामिति विष्णुवचनात् । कल्पतरुकारा- दयश्च मनुवचनानुसारेणैव तत्र तत्र साहसान् वक्ष्यन्ति । दवि.२ ं .२३ अपराधजात्यादिनिमित्ततारतम्येन दण्डतारतम्यम् वाग्धिग्धनं वधं चैव चतुर्धा कल्पितं दमम् । पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् || तत्र वाग्दण्डो न त्वयेदं सम्यक् कृतमित्यादि निन्दा । ताडयैनमिति वाङ्मात्रमिति नारायणः । धिग्दण्डो धिक् त्वां पापीयांसमकार्यकारिणमित्यादिभर्त्सनम् । धनं द्विविधं व्यवस्थितमव्यवस्थितं च । तत्र व्यवस्थितं नियतसंख्यं साहसरूपं, तत् त्रिविधं प्रथमं मध्यममुत्तम मिति । यत्राप- राधानुबन्धादिना संख्याधिक्यं कल्प्यते तदव्यवस्थितं, तत्सामान्यतो द्विविधं पणादिरूपं मापादिरूपं च सर्वमिदमनुपदं वक्ष्यते । वधस्त्रिविधः पीडनमङ्गछेदः प्रमापणं च । तेषु पीडनं चतुर्विधं, ताडनमवरोधनं बन्धनं विडम्बनं च । तत्र ताडनं कशाग्रभित्रातः, अव- रोधनं कारावासादिना कर्मनिरोधः, बन्धनं निगडादि- भिरस्वातन्त्र्योत्पादनं, विडम्बनमनेकप्रकारं यथा - मुण्डनं गर्दभारोहणं चौर्यादिचिह्नाचरणं डिण्डिमादिना तत्तदप राघख्यापनं पुरनगर भ्रामणमित्यादि । दवि. २० स्वल्पेऽपराधे वाग्दण्डो घिग्दण्ड: पूर्वसाहसे । मध्योत्तमेऽर्थदण्डस्तु राजद्रोहे च बन्धनम् || निर्वासनं वधो वाऽपि कार्यमात्महितैपिणा | व्यस्ताः समस्ता एकस्य महापातककारिणः ॥ वाग्दण्डश्चैव धिग्दण्डो विप्रायत्तावुभौ स्मृतौ । (१) विर.६२९ धनं (दण्डं); दवि.२० धं (ध:) तं दभम् (तो दमः) दोपविभवं (विभवं दोषं ) सं (तं); समु. ६८दविवत्, (२) स्मृच. १२६ ल्पे (ल्पा ) ध्योत्तमे (ध्यमे त्व) हे च (हेषु); विर.६२९ ण्ड: (ण्ड) मध्योत्तमेऽर्थदण्डस्तु ( मध्ये तु रोधनं दण्डं); पमा.२०६; दवि.६३ ण्ड: (ण्डं) मेऽर्थदण्डस्तु (रे धनं दण्डं); प्रका. ७९ स्मृचवत् ; समु. ६८ ल्पे (ल्पा) ४योत्तमेऽर्थ (ध्यमोत्तम) च (पु). (३) स्मृच. १२६; त्रिर.६२९ वधो वा (विरोधे) व्यस्ताः (योज्याः) स्ता ए (स्ताश्चै); पमा. २०६ णः (णे); दवि.६३ बधो वा (निरोधो) व्यस्ता: (योज्य:) स्ता ए. (स्त ए); प्रका. ७९ पमावत; समु. ६८. अर्थदण्डवधावुक्तौ राजायत्तावुभावपि * ॥ 'मित्रादिषु प्रयुञ्जीत वाग्दमं धिक् तपस्विनाम् । विवादिनो नरांश्चान्यान्दोषिणोऽर्थेन दण्डयेत् || पुरुषापेक्षया व्यवस्था दर्शिता । आदिग्रहणेन मान्या जना गृह्यन्ते । स्मृच. १२६ गुरून्पुरोहितान्पूज्यान्वाग्दण्डेनैव दण्डयेत् । विवादिनो नरांश्चान्याधिग्धनाभ्यां च दण्डयेत् || महापराधयुक्तांश्च वधदण्डेन शासयेत् ॥ प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः । ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्वचित् ।। दातव्या दापयितव्याः | दवि.५८ चतुर्दश दण्डस्थानानि, ब्राह्मणस्य वधभिन्नो दण्ड: हस्ताङ्घ्रिलिङ्गनयनं जिह्वाकर्णौ च नासिका । ग्रीवापादार्धसंदंशललाटोष्ठगुदं कटिः ॥ स्थानान्येतानि दण्डस्य निर्दिष्टानि चतुर्दश । ललाटेडको ब्राह्मणस्य नान्यो दण्डो विधीयते ।। अङ्गच्छेदश्र छेद्याङ्गभेदाचतुर्दशविध इति बृहस्पति: । तान्याह् – हस्ताङ्मीत्यादि । अर्धपदं जिह्वायामप्यन्वेति द्वन्द्वोत्तरश्रुतत्वात्, अन्यथा जिह्वेति पुनरभिधानानर्थ- क्यात् । संदंशस्तर्ज्जन्यङ्गुठौ मिलितौ, अत्र पादार्धस्यापि दर्शनात् । 'उपस्थमुदरं जिह्वा हस्ती पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति मनुवचने हस्तादौ द्वित्वमविवक्षितं पक्षप्राप्तानु- वादो वा, एवञ्चास्य दशविधत्वाभिधानमपि न्यून- संख्याव्यवच्छेदपरम् । देहग्रहणञ्चात्र प्रमाणपरं यदाह ।
- व्याख्यानं स्थलादिनिर्देशश्व सभाप्रकरणे (पु.५१ ) द्रष्टव्यः ।
(१) स्मृच. १२६; पमा २०६ दमं (दण्डं) रांश्चान्यान् (रांश्चापि); प्रका. ७९; समु. ६९ दमं ( दण्डं ). गोऽर्थेन); पमा. २०६; दवि. ५७ पू .; नृप्र.१७ प्., स्मृतिः; (२) स्मृच.१२६; त्रिर.६२९ धिग्धनाभ्यां च (दोषि- तु. ३२५; प्रका. ७९; समु.६ ९. (३) स्मृच. १२५; विर.६२९; सेतु. ३२५; प्रका. ७९; समु. ६८ पराध (पातक). (४) दवि. ५८. (५) विर.६३१; दवि. २१ ग्रीवा (जिह्वा); बाल २। २६ श (शं) छ (ठं); समु.६७ स्मृत्यन्तरम्.. (६) विर.६३१ टे (टा); पमा. २१० टेडको (ठाङ्क) उत्त.; बाल. २।२६; समु. ६७ पू., स्मृल्यन्तरम्.