व्यवहारस्वरूपम् १३ अर्थस्य काले दानं च व्यसने चाप्रसङ्गिता ॥ तथा राजगुणाश्चैव सेनापतिगुणाश्च छ । कारणं च त्रिवर्गस्य गुणदोषास्तथैव च ॥ दुश्चेष्टितं च विविधं वृत्तिश्चैवानुवर्तिनाम् । शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥ अलब्धलाभो लब्धस्य तथैव च विवर्धनम् । प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्ततः ॥ विसर्गोऽर्थस्य धर्मार्थ कामहैतुकमुच्यते । चतुर्थ व्यसनाघाते तथैवात्रानुवर्णितम् ।। क्रोधजानि तथोग्राणि कामजानि तथैव च । दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह || मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ । कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ॥ वाक्पारुष्यं तथोप्रत्वं दण्डपारुष्यमेव च । आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च ॥ यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः । अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥ चैत्यद्रु मावमर्दश्च रोधः कर्मानुशासनम् । अपस्करोऽथ वसनं तथोपायाश्च वर्णिताः ॥ पणवानकशंखानां भेरीणां च युधिष्ठिर । उपार्जनं च द्रव्याणां परिमर्दश्र तानि षट् ॥ लब्धस्य च प्रशमनं सतां चैवामिपूजनम् । विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता || मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया । आहारयोजनं चैव नित्यमास्तिक्यमेव च || एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः | उत्सवानां समाजानां क्रिया: केतनजास्तथा ॥ प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ | वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ।। अदण्डवत्वं च विप्राणां युक्त्या दण्डनिपातनम् । अनुजीवी स्वजातिभ्यो गुणेभ्यश्च समुद्भवः || रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम् । मण्डलस्था च या चिन्ता राजन् द्वादशराजिका ॥ द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया | देशजातिकुलानां च धर्माः समनुवर्णिताः || धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः । विभ्रमश्चैव मन्त्रस्य सिध्यसिध्योश्च यत्फलम् ॥ संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः । भयसत्कारवित्ताख्यं कार्येन परिवर्णितम् || यात्राकालाच चत्वारस्त्रिवर्गस्य च विस्तरः । विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥ आसुरश्चैव विजयस्तथा कार्येन वर्णितः । लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् || प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः || रथा नागा हयाश्चैव पादाताश्चैव पाण्डष । विष्टिनीवश्चराश्चैव देशिका इति चाष्टमम् ॥ अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥ स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः । अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः ॥ कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह । आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् || कल्पना विविधाश्चापि नृनागरथवाजिनाम् । व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥ उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम् । शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ || बलव्यसनयुक्तं च तथैव बलहर्षणम् । पीडा चापदकालश्च पत्तिज्ञानं च पाण्डव ॥ तथाख्यातविधानं च योग: संचार एव च । चोरै राटविकैश्चोयैः परराष्ट्रस्य पीडनम् ॥ अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः । श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥ दूषणेन च नाग़ानामातङ्कजननेन च । आराधनेन भक्तस्य प्रत्ययोपार्जनेन च ॥ सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् । दूतसामर्थ्यसंयोगात्सराष्ट्रस्य विवर्धनम् || अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् । अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥ व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् । श्रम व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः ॥ अभृतानां च भरणं भृतानां चान्ववेक्षणम् ।
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति