व्यवहारस्वरूपम् व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥ यत्र वेदप्रसूतात्मा स धर्मो गुणदर्शनः । धर्मप्रत्यय उद्दिष्टो यथाधर्म कृतात्मभिः ॥ व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर । त्रीन् धारयति लोकान्वै सत्यात्मा भूतिवर्धनः यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः । व्यवहार दृष्टो यः स वेद् इति निश्चितम् || यश्च वेदः स वै धर्मो या धर्मः स सत्पथः । ब्रह्मा पितामहः पूर्व वभूवाथ प्रजापतिः ॥ लोकानां स हि सर्वेषां ससुरासुररक्षसाम् । स मनुष्योरगवतां कर्ता चैव स भूतकृत् ॥ ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः । तस्मादिदमथोवाच व्यवहारनिदर्शनम् || माता पिता च भ्राता च भार्या चैव पुरोहितः । नादण्डयो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ।। भर्तृप्रत्ययः भर्तारौ द्वौ विवदमानौ प्रत्ययः कारणं यस्य सः, तथा वादिप्रतिवादियां प्रवर्तितो व्यवहारः तयोरन्यतरस्य प्रत्ययोऽभ्युपगमो लक्षणं यस्य स भर्तृ- प्रत्ययलक्षणः । अन्यतरपराजयादित्यर्थः । सहितो हितं इषं तेन युक्तः सहितः । अन्यतरजयावह इत्यर्थः ॥ वेदात्मा वेदोक्तो दोपः पारदार्थादिः तन्निनृत्यर्थ पर्पदं प्रति गतश्चेत्तत्र प्रायश्चित्तात्मको वेदहेतुक एवं दण्डः । मौल: कुलाचारप्रयुक्तो यो व्यवहारस्तत्रापि शास्त्रोक्तो दण्डः । यथा शूद्रस्य सुगपाने प्रायश्चित्तं नास्ति अथापि कस्मिंश्चिच्छूद्रकुले एवं नियमो ‘योऽस्माकं मध्ये मुरां पिवति स ज्ञातिवाह्य इति तस्योलङ्घने शूद्रस्य मुरा पानोक्तं प्रायश्चित्तं भवति, तथा च शास्त्रविदामनुक्रमणं धर्मज्ञानां समयः प्रमाणं वेदाश्चेति ॥ तेषां त्रयाणां दण्डानां मध्ये आद्यः क्षत्रियाधीन इत्याह-उक्त इति । नः अस्माभिः क्षत्रियैर्दण्डोऽपि ज्ञेयः तत्र प्रत्ययोऽपि ज्ञेयः ॥ अस्यापि वेदमूलत्वमाह-दण्ड इति । विविधोऽ बहारः अन्योन्यं परपक्षक्षेपेण स्वपक्षमाधनं व्यवहारः तदात्मको न्यायः स यद्यपि दण्ड प्रत्ययदृष्टस्तथापि स व्यवहारपदार्थो मन्वादिभिः स्मृतोऽस्ति अतः सोऽपि वैदिकप्रणीतत्वाद्वेदवपयात्मको वेदार्थगोचरोऽस्तीत्यर्थः॥ इतरौ द्वौ व्यवहारौ वेदमूलत्वाद्धर्मरूपावित्याह-यश्चेति द्वाभ्याम् । यथाश्रमै उद्दिष्टः मम पारदार्यजेनाधर्मेण धर्मलोपो मा भूदिति पश्चात्तापवति उद्दिष्टः प्रायश्चित्त रूपो दण्डो धर्म एवेत्यर्थः ॥ प्रजागोप्ता प्रजाकृतस्य नियमस्य रक्षिता, शूद्रस्यापि सुरापानप्रायश्चित्तादिरूपः सोऽपि धर्म एवेत्यर्थः ॥ दण्डव्यवहारधर्मवेदसत्पथप्रजा- • पतीनामैकात्म्यमाह द्वाभ्यां - इति ॥ यतः प्रजापति भूतकृत् ततो हेतोः अयमस्मदीयो भर्तृप्रत्ययलक्षणो व्यवहारः प्रवृत्तस्तस्मादस्मिन्विषये स इदं निदर्शनं वाक्यं उवाच ॥ तदेव वाक्यं पठति मातेति । यो राजा स्वधर्मेण तिष्ठति तस्य राज्ञ इति संवन्धः ॥ नीटी. नारदः व्यवहारोत्पत्तिस्तत्प्रयोजनं च लोकसंरक्षणार्थाय धर्मसंस्थापनाय च । राज्ञां दोपहरश्चैव व्यवहारः प्रकीर्तितः ।। मनुः प्रजापतिर्यस्मिन् काले राज्यमवूभुजत् । धर्मेकतानाः पुरुपास्तदासन् सत्यवादिनः ।। धर्मेकतानाः पुरुपा यदासन सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेपो नापि मत्सरः ।। , (१) तत्र धर्म: श्रुतिस्मृत्युदितः शिष्टाचारलक्षणश्च । धर्मः एकतानः येषां ते धर्मैकतानाः | तानशब्दो बल वाची प्रधानवाची च । तेन धर्मेकवला धर्मेकप्रधानाश्च पुरुष यदासन् इति यदा अभवन् तदा न व्यवहारो ऽभून्न द्वेषो नाऽपि मल्मरः । तस्मिन्काले एषां त्रयाणा- मपि असंभवहेतुः अयमेव प्रथमः | धर्मस्य व्यवहार द्वेपमत्सरै: सह छायातपविरोधः, यत्रातपस्तत्र न छाया, यत्र छाया तत्र नातपः । यदा धर्मस्तदा न व्यवहार द्वेपमत्सराः । यदा पुनरिमे तदा न धर्म इत्येतदर्थमैथे- दमभिहितं भगवता नारदेन ।
- अभा. २
- व्यनि अभागतभ ।
(१) Vulg. नास्मृ. ११२ इत्यस्य प्रागयं लोकः । (२) नासं. १११; पमा ७; व्यनि. (मनुप्रजापती यस्मिन्काले राज्यं प्रशासति); व्यप्र. ४; व्यउ.३; प्रका. १; समु. २. कल्याणभट्टाये ‘असहायभाध्ये' नायं श्लोकः समुपलभ्यते । (३) नास्मृ. १११; अभा. २ द्वेषां (कोषो); विश्व.२०१९; व्यमा. २७८; स्मृच. १; पमा. ७ उत्त.; व्यचि. १ नापि (न च); व्यनि. उत्त.; व्यप्र. ४ उत्त.; व्यउ. ३ उत्त.; प्रका. १उत्त.; समु. २. कल्याण मट्टीये 'असहायभाष्ये' अयमाद्यः श्लोकः ।