सूचयति । तानि च प्रकीर्णकशब्देन नारदानुक्तानि । अत एव नारद:- 'न दृष्टं यच्च पूर्वेषु सर्वे तत्स्या- प्रकीर्णकम्' इति ।
- ममु.
(४) भूयिष्ठमित्युक्ति: अष्टादशातिरिक्तसूचनार्थे, तेन प्रतिज्ञादिग्रहः ।
- मन्त्र.
याज्ञवल्क्यः व्यवहारपादाः व्यवहारस्वरूपम् चंतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः । (१) न्यायागमाभ्यामिति शेषः । प्रतिज्ञा, उत्तरं, साधनं, निर्णयश्चेत्येवं चतुष्यात् । अन्यथा तु न स्यात् । तस्मात् प्रतिज्ञाक्रमेणैव विवादक्रियेत्यभिप्रायः । विश्व. (२) 'व्यवहारान्नृपः पश्येत्' इत्युक्तो व्यवहारः, सोऽयमित्थं चतुष्पात्, चतुरंशकल्पनया विवादेषु ऋणा- दानादिषु उपदर्शितो वर्णितः । तत्र 'प्रत्यर्थिोऽग्रतो लेख्यं' इति भाषापाद: प्रथमः । 'श्रुतार्थस्योत्तरं लेख्यं' इत्युत्तरपादो द्वितीयः । 'ततोऽर्थी लेख- येत्सद्य' इति क्रियापादस्तृतीयः । तत्सिद्धी सिद्धि माप्नोति' इति साध्य सिद्धिपादश्चतुर्थः । संप्रतिप्रत्युत्तरे तु साधनाऽनिर्देशात् भाषार्थस्याऽसाध्यत्वाच्च न साध्य सिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वमेव | उत्तराभिधाना- नन्तरं सभ्यानामार्थप्रत्यार्थिनोः कस्य क्रिया स्यादितिपरा- मर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपाद त्वेनाऽनभिधानात् व्यवहर्तुः संवन्धाभावाच्च न व्यवहार पादत्वमिति स्थितम् । । मिता. ११ बृहस्पतिः -- 'पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा । क्रियापादस्तथा वाच्यश्चतुर्थी निर्णयस्तथा' ||
- अप.
(४) विवादेपु ऋणादानादिषु विचारविषयेषु । बीमि. प्रमाण- (३) अयमस्माभिचतुष्पात् चतुर्भागो व्यवहारो व्यापारः सर्वविवादेषूक्तः । अत्र च सिद्धिशब्देन सभ्याना- मार्थप्रत्यार्थविषयूजयपराजयावधारणोपायभूतं मस्येदं शास्त्रतः प्राप्नोतीति विचारकाणां परामर्श: प्रत्या. कलितादिशब्दवाच्य उच्यते, सिद्धिफलत्वात् । अत एवाह कात्यायन:- 'पूर्वपक्षश्चोत्तरं च प्रत्याकलितमेव च । क्रियापादश्च तेनायं चतुप्पात्समुदाहृतः ॥ अत एव
- वाक्यार्थी गोरावत् ।
(१) यास्मृ.२१८; अपु. २५३१३८; विश्व.२८; मिता; अप. २१८: २११ दर्शित: (दिश्यते); पमा. १६; व्यनि.; नृप्र. ३,७; र्वामि.; ब्यम.९; त्रिता. ५१ रोऽयं (रस्तु); प्रका. ४; समु.२५. नारदः सोत्तरानुत्तरव्यवहारी सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः । सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः || , (१) अस्य भाष्यम् । व्यवहार इत्यनुवर्तते । व्यवहार एकः सोत्तरोऽपरोऽनुत्तर इति द्विलक्षणो ज्ञेयः । सोत्तरलक्षणं चाऽस्यैव श्लोकस्योत्तरार्धेन व्याख्यातम् । अत्र च व्यवहारस्य सोत्तरत्वे पणाधिक्यं केचिदपरि ज्ञानादेव ब्रूयते । यत्किल लभ्यद्रव्यादधिकः पणो यत्र भवति, स एव सोत्तर उच्यते । यत्पुनर्लभ्यद्रव्यादधिक पणो न भवति सोऽनुत्तर इति । तदिदमममञ्जसं वचनं मनागपि न घटते । यतः येन व्यावहारिकेण परिपूर्णविभवतया कस्यचित् ऋणिकस्योपरि...पत्र लिखितपूर्वाणि द्रम्माणां दशसहस्राणि प्रयुक्तानि । तस्मिंश्च व्यावहारिके स्वर्गते तदीयपुत्रो विधिविल सित. वशाहरिद्रो जातः । तत्पत्रमादाय द्रव्योद्ग्रहणाय ऋणि कपाश्रमागतः । ऋणिकेनापि साध्याद्धर्माधिकरणाऽग्रे मिथ्यावादितया निराकृतः । तदा यस्मैकदिनभोजनो पायो नाऽस्ति तस्य द्विगुणीभूतद्रम्मविंशतिसहस्राणां अधिकपणकरणसामर्थ्य कुतः संभवतु । ततश्च अधिक पणकर्णेन विना व्यवहारस्य सोत्तरत्वगौरवं कथ- मापद्यताम् । अतोऽर्थापत्यैव ज्ञायते, न हि मुनिमता- नीदृशानि भवन्ति । येष्वशक्यसाधनोपायमुपन्यस्य सदर्थ- साधने भाषाया एव तावदनुष्ठानाऽसंभवः संपद्यते । कि
- शेषं मितागतम् ।
(१) ना.सं. ११४; नास्मृ. ११४; अभा.४; व्यमा. २८३ विशे (च) भ्य (ह्य) विलेख्यपूर्वक इति पाठे एषैवेत्यादि । विलेखात्पूर्वत इति भोजदेवेन लिखितम् ; अप. २०११ भ्य (त्य) खा ( खात् ); व्यक. १६ खा (ख्यात्); स्मृच. १० श्चैव (श्चेति) खापूर्वकः ( खात्पूर्वतः ); पमा. श्चैव (श्चेति); व्यचि.७ यत्र (ह्यत्र) खा (खात्); व्यसौ. १२ पृ. 5 वीमि. २११ खा (खात्); व्यप्र॰५ श्चैव (श्चेति) खा (खान्); व्यउ. ३ पमावत ; प्रका. ३ स्मृचवत्; समु. ३ स्मृचवत्.