पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३ सर्गः धर्मशर्माभ्युदयम् ।

निवसनमिव शैवल निरस्य स्पृशति जने नवसङ्गभाजि मध्यम् । वदनमिव पिधातुमुद्यतोर्मि प्रसरकराथ सरिद्वधूश्चकम्पे ॥ २७ ।। पृथुतरजघनैर्विलोड्यमाना युवतिजनै कलुषत्वमाश्रयन्ती । स्वपुलिनमुपसर्पिभि पयोभिः सरिदुपगोपयति स लज्जितेव ॥ २८॥ प्रतियुवति निषेव्य नाभिरन्ध्रेष्वभिनवविन्ध्यदरीप्रवेशलीलाम् । अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाग्रविघट्टनानि रेवा ॥ २९ ॥ वरतनुजघनाहतैर्गभीरप्रकृतिभिरप्यतिचुक्षुभे पयोभि । इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीपु न किं जडस्वभाव ॥ ३० ॥ समसिचत मुहुर्मुहु कुचाग्र करसलिलैर्दयितो विमुग्ववध्वाः । मृदुतरहृदयस्थलीग्ररूढस्मरनवकल्पतरोग्विाभिवृद्ध्यै ॥ ३१ ॥ स्तनतटपरिघट्टितै पयोभि सपदि गले परिरेभिरे तरुण्यः । अधिगतहृदया मनखिनीना किमु विलसन्मकरध्वजा न कुर्यु ॥ ३२ ॥ हृदि निहितघटेव बद्धतुम्बीफललुलिताङ्गलतेव कापि तन्वी । इह पयसि सविभ्रम तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ ३३ ॥ तटमनयत चारुचम्पकाना स्रजमबलागलविच्युत्ता तरङ्गै । निजदयितरिपोरिवौर्ववह्ने प्रचुरशिखापरिशङ्कया स्रवन्ती ॥ ३४ ॥ प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा क्लम सपत्नी । अनुनदि सलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्या ॥ ३५ ॥ नवनखपदराजिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे । वरसरिदुपढौकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ ३६ ॥ सरभसमधिपेन सिच्यमाने पृथुलपयोधरमण्डले प्रियाया । श्रमललिलमिषात्सखेदमश्रूण्यहह मुमोच कुचद्वय सपत्न्या ॥ ३७ ।। प्रियकरसलिलोक्षितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः । प्रतियुवतिरथर्वसारमन्त्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ३८ ॥ अहमिह गुरुलज्जया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव । मुखमनु मुमुखी करौ धुनाना यदुपजन भवता मुहुश्चुचुम्बे ॥ ३९ ॥