पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

निर्मज्ज्य सिन्धौ सवितुर्दिनान्ते वृथोडुरत्नोद्धरणाय यत्न । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ १८ ।। मित्र क्वचित्कूटनिधिर्निधत्ते वसूनि हृत्वेत्युदितापवाद । सध्यामथोदीरितरागरक्ता शस्त्रीमिवान्तर्निदधेऽस्तशैल ॥ १९ ॥ प्रदोषचास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौघः । ध्वस्तो नभ प्रौढगजस्य भास्वत्कुम्भोपरश्चेन्दुमिषादुदस्त ॥ २० ॥ अथास्तसध्यारुधिराणि पातु विस्तारिताराभरदन्तुरास्य । वेतालवत्कालकरालमूति समुज्जिजृम्भे सहसान्धकारः ॥ २१ ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छत्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैनिरन्तरं व्यापि नभस्तमोभि ॥ २२ ॥ अन्य जलाधारमित प्रविष्टे कुतोऽपि हसे सहिते सहायै । नभ सरोऽच्छेदगरीयसीमिश्छन्न तम शैवलमञ्जरीमि ॥ २३ ॥ अस्त गते भास्वति जीवितेशे विकीर्णकेशेव तम समुहैः। ताराश्रुबिन्दुप्रकरैर्वियोगदुःखादिव द्यौ रुदती रराज ॥ २४ ॥ तेजोनिरस्तद्विजराजजीव गते जगत्तापिनि तिग्मरश्मौ । तद्वासहर्म्य तमसा विशुधे द्यौगोमयेनेव विलिम्पति स्म ।। २५ ॥ नून महो ध्वान्तभयादिवान्तश्चित्त निलीन परिहृत्य चक्षु । यचेतसवेक्षणनिर्व्यपेक्षमद्राक्षुरुचावचमत्र लोका. ॥ २६ ॥ आज्ञामतिक्रम्य मनोभवस्य यियासता सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारबन्धायितमन्धकारैः ।। २७ ॥ लब्ध्वा समृद्धि रतये वाभावान्मलीमसाना मलिना भवन्ति । यत्पासुला दस्युनिशाचराणामभून्मुदे केवलमन्धकार ॥२८॥ तथाविधे सूचिमुखामभेये जातेऽन्धकारे वसतिं प्रियस्य । हृत्कक्षलमस्मरदावहिविज्ञातभार्गव जगाम काचित् ॥ २९ ॥१ यथा कश्चिच्छानिधानो मित्रद्रोही द्रव्य गृहीत्वा मित्र पातयति, रक्तालिप्ता कार्यकारिणी छुरिका च पिदधाति तद्वत्.