पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ काव्यमाला।

अश्रुगद्गदगिरामिह तावद्योषिता रतविधी करुणोक्तिः । तानि शुष्करुदितान्यपि यूना भेजिरे श्रवणयोरमृतत्वम् ॥ १७ ॥ आहतानि पुरुपायितमुच्चैर्धाष्टर्चमीगुपमर्दसहत्वम् । कामिनि क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रनिपेदे ॥ १८ ॥ भन्मपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि । ताम्यति स्म मुरते न कयचित्प्रेमकार्मणवशेव कृशाङ्गी ॥ ५२ ॥ स्पष्टधार्यमविरोवितवान्छ मञ्जकृजितमनादृतदेहम् । चित्रचाटुरुचि यत्प्रणयिन्याम्नप्रियस्य रतये रनमासीत् ।। ६० ॥ पीलितेक्षणपुटै रतिसौख्य योषितामनुभवद्रिभीष्टैः । निर्निमेपनयनैकविभोग्य तत्रिविष्टपमुख लघु मेने ॥ ११ ॥ सवितेनुरबिक मिथुनाना प्रीतिमप्यवमतात्मसुखानि । प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरनानि रतानि ॥ ६२ ॥ भूरिमयरसपानविनोदैर्गाढशून्यहृदयानि तदानीम् । कान्यपि म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ॥ १३ ॥ उत्थितान्यपि रतोत्मवलीलाकौशलापहृतनेत्रमनासि । युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्नवरिवर्तमकाएं ॥ ६४ ॥ प्रेयसीपृथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपति । चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनगनृपस्य ॥ ६५ ॥ सप्रविश्य वलभीषु गवाक्षर्वीक्ष्य चोन्नतपयोधरमगम् । कामतप्त इव कामधुनीनामाचचाम पवन श्रमवारि ॥ ६६ ॥ पश्यति प्रियतभेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् । ऐक्षतेब हृदय त्रपमाणा स्त्री पुन सरशरव्रणचिह्नम् ॥ ६७ ॥ गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् । ऊरुदण्डमवलम्ब्य तरुण्या सश्रमोऽपि रतवर्मनि भूयः ॥ ६८ ॥ चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् । ईय॑येव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ १९ ॥