पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सर्गः धर्मशर्माभ्युदयम् ।

वार्तादौ तदनु रजस्ततः प्रणादो भेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुक तदानीं सानन्दं पुरि विदधे विदर्भराजम् ।। ७४ ॥ सोल्लासं कतिपयवेगवत्तुरगैरेत्यास्मिन्नभिमुखमशुमानिवासीत् । अस्योद्यद्गुणगरिमप्रकर्षमेरो. पादान्ते प्रणतिपरः प्रतापराज ॥ ७९ ॥ देवोऽपि प्रणयवशीकृतः कराभ्यामुत्क्षिप्य क्षितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथाना तद्बाहो. पृथुतरमन्तर निनाय ।। ७६ ॥ श्लाघ्य मे कुलमखिलं दिगप्यवाची धन्येयं समजनि सततिः कृतार्था । कीर्तिश्च प्रसरतु सर्वतोऽद्य पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ ७७ ॥ सोऽप्यन्तर्मनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलद्धनपुलकाङ्कुर प्रमोदादित्यूचे विनयनिधिर्विदर्भराज ॥ ७८ ॥ कि ब्रूम. शिरसि जगत्रयेऽपि लोकराज्ञेय स्रगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेष्वप्ययमधुना विधीयता न ॥ ७९ ॥ अत्यन्त किमपि वचोभिरित्युदारै सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतर स्वभावमस्य प्रेक्ष्येति प्रियमुचित मुदाचचक्षे ॥ ८॥ सर्वस्वोपनयनमत्र तावदास्ता जाता. सस्त्वदुपगमाद्वय कृतार्था । नास्माक तव विभवे परस्वबुद्धिों वास्ते वपुषि मनागनात्मभावः ॥ ८१ ॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसत्क्रियाप्रतीतः । ताम्बूलार्पणमुदित विदर्भराज स्वावासं प्रति विससर्ज धर्मनाथ ॥ ८२ ॥ आनन्दोच्छसितमना पुरोपकण्ठे योग्यायामथ वैरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनी विधातुं सेनाया पतिमयमादिदेश देव ॥८॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा- समासन्न शाखानगरमिव तत्कुण्डिनमभूत् ॥ ८४ ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युलसत्तोरणा पौरा. पूर्णमनोरथा रचयत प्रत्यारशावलिम् ।१ दक्षिणा दिक् २ वरदा विदर्भदेशप्रसिद्धा नदी ११