पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा । जगट्ठय मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ १८ ॥ धनुर्लता भूरिषवः कटाक्षा. स्तनौ च सर्वस्वनिधानकुम्भौ । सिहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं सरपार्थिवस्य ॥ १९ ॥ मड्डु जले वाञ्छति पद्ममिन्दुळमागण सर्पति लङ्घनार्थम् । क्लिश्यन्ति लक्ष्म्या. सुदृशा हृताया. प्रत्यागमार्थ कति न त्रिलोक्याम्र कुतः सुवृत्त स्तनयुग्ममस्या नितम्बमारोऽपि गुरु कथ वा । येन द्वयेनापि महोन्नतेन समाश्रित मध्यमकारि दीनम् ॥ २१ ॥ यद्वर्ण्यते निर्वृतिधाम धन्यैर्भुव तदस्या स्तनयुग्ममेव । नो चेत्कुतस्त्यक्तकलङ्कपका युक्ता गुणैरत्र वसन्ति मुक्ता ॥ २२ ॥ इत्यङ्गशोभातिशयेन तस्याश्चमत्कृताश्चेतसि चिन्तयन्त । मनोभवास्त्रैरिव हन्यमाना. शिरासि के के दुधुवुन भूपाः ॥ २३ ॥ मन्त्रान्निपेटुस्तिलकान्यकार्पर्ध्यान दधुश्चिक्षिपुरिष्टचूर्णम् । इमा वशीकर्तुमनन्यरूपा कि कि न चक्रुर्निभृतं नरेन्द्राः ॥ २४ ॥ शृङ्गारलीलामुकुरायमाणान्यासन्नृपाणा विविधेशितानि । कन्यानुरागि प्रतिबिम्ब्यमान व्यक्त मनोऽलक्ष्यत यत्र तेषाम् ॥ २५ ॥ कदर्पकोदण्डलतामिवैको ध्रुव समुलिप्य सम सुहृद्भि । करप्रयोगाभिनयप्रवाला विलासगोष्ठी रसिकश्चकार ॥ २६ ॥ स्कन्धे मुहुर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलक ददर्श । अभ्युद्धरत्युद्धरवैरिवार्धर्वसुधरापङ्कमिवात्र लग्नम् ॥ २७ ॥ लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्य । अदर्शयच्चन्द्रधिया गतस्य सङ्ग मृगस्येव मुखे निषेद्भुम् ॥ २८ ॥ व्यराजतान्यो निजनासिकाने निधाय जिघन्करकेलिपद्मम् । सदस्यलक्ष्य कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमान, ॥ २९ ।। कश्चित्कराभ्या नखरागरक्त सलीलमावर्तयति स्म हारम् । स्मरास्त्रभिने हृदयेऽस्रधाराश्रम जनाना जनयन्तमुच्चै ॥ ३० ॥