पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

स्फुरत्प्रतापस्य ततोऽनभर्तुः सूर्याशुराशेरिव सनिकर्षम् । कुमुद्वतीं सा सरसीव कृच्छ्रान्निनाय चैनामिति चाभ्यधत्त ॥ ४४ ॥ अङ्गोऽप्यनङ्गो हरिणेक्षणाना राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजित को वा चरित्र महतामवैति ॥ ४५ ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजु. कथचिन्न पुनः प्ररोहमुत्खातमूला इव पत्रवल्लयः ॥ ४६ ॥ संख्येषु साक्षीकृतमात्मसैन्य खड्गोऽपि वश्यप्रतिभूरुपात्त । कृतार्थवत्पत्रपरिग्रहेण दासीकृतानेन विपक्षलक्ष्मी. ॥ ४७ ॥ गङ्गामुपास्ते श्रयति त्रिनेत्रं खं निर्जरेभ्य प्रविभज्य दत्ते । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दु ॥४८॥ यद्यस्ति तारुण्यविलासलीलासर्वखनिवेशमनोरथस्ते । तस्कामिनीमानसराजहस मूर्त्यन्तरानगममुं वृणीष्व ॥ ४२ ॥ ग्रीष्मातेजोभिरिव स्मरास्त्रैस्तप्ताप्युदञ्चत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहसीच रति बबन्ध ॥ १० ॥ सपूर्णचन्द्राननमुन्नतास विशालवक्ष स्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपति कुमारी दौवारिकी सा पुनरित्युवाच ॥ ११ ॥ खिन्न मुहुश्चारुचकोरनेने प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि राज्ञि साक्षानिक्षिप्यता निर्वृतयेऽत्र चक्षु ॥ ५२ ॥ अनारतं मन्दरमेदुराङ्गै प्रमथ्यमानोऽस्य गजै. पयोधिः । शुशोच दु.खान्मरणा-युपाय ग्रस्त त्रिनेत्रेण स कालकूटम् ।। ५३ ॥ चकर्ष निर्मुक्तशिलीमुखा यत्करेण कोदण्डलता रणेषु । जगत्रयालकरणैकयोग्यमसौ यश पुष्पमवाप तेन ॥ १४ ॥ चेतश्चमत्कारिणमत्सुदार नव रसैरर्थमिवातिरम्यम् । खमेनमासाद्य पति प्रसन्ना श्लाध्यातिमात्रं भव भारती वा ॥ ५५ ॥ भूतिप्रयोगैरतिनिर्मलाशात्तस्मात्सुवृत्तादपि राजपुत्री । आदर्शबिम्बादिव चन्द्रबुद्धया न्यस्त चकोरीव चकर्ष चक्षुः ॥ १६ ॥१ कुत्सितहर्षवती च २ चन्द्रे, नृपेच