पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्षी । प्रसारितोद्दामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ ६८ ॥ विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन तस्याः । अर्हद्गुणग्रामकथासु किंचिद्विस्तारयामास गिर सुभद्रा ॥ ६९ ॥ गुणातिरेकप्रतिपत्तिकुण्ठीकृतामरेन्द्रप्रतिभस्य भर्तुः । यद्वर्णनं मद्वचसाप्यमुष्य भानो. प्रदीपेन निरीक्षण तत् ॥ ७० ॥ इक्ष्वाकुवशप्रभव प्रशास्ति महीं महासेन इति क्षितीशः । तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ ७१ ॥ मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नवृष्टिः । यया न दारिद्यरजो जनाना स्वप्नेऽपि दृग्गोचरता जगाम ॥ ७२ ॥ जन्माभिषेकेऽस्य सुरोपनीतैर्दुग्धान्धितोयैः प्रविधीयमाने । संप्लाव्यमान कनकाचलोऽपि कैलासशैलोपमता जगाम ॥ ७३ ॥ लावण्यलक्ष्मीजितमन्मथस्य कि ब्रूमहे निर्मलमस्य रूपम् । वीश्यैव यद्विस्मयतो बभूव हरिद्विनेत्रोऽपि सहस्रनेत्र ॥ ७४ ।। वक्ष स्थलात्माज्यगुणानुरक्ता युक्त न लोलापि चचाल लक्ष्मी । बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यद्भत्रितयेऽद्भुतं तम् ॥ ७५ ।। बुद्धिर्विशाला हृदयस्थलीव सुनिर्मल लोचनवचरित्रम् । कीर्तिश्च शुभ्रा दशनप्रभेव प्रायो गुणा मूर्त्यनुसारिणोऽस्य ।। ७६ ॥ सुरागनानामपि दुर्लभ यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् । तस्याकमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव सुन्दरि त्वम् ॥ ७७ ॥ इत्य तयोक्ते द्विगुणीभवन्त रोमाञ्चमालोकनमात्रभिन्नम् । सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ।। ७८ ॥ भाव विदित्वापि तथा करेणु सख्या सहास पुरतः क्षिपन्त्या । चेलाञ्चल सा चलपाणिपद्मा प्रोत्सृज्य लजा द्रुतमाचकर्ष ॥ ७९ ॥ श्रीधर्मनाथस्य मनोज्ञमूर्ते. प्रवेपमानाप्रकरारविन्दा । सवाहिता वेत्रभृता कराभ्या चिक्षेप कण्ठे वरणस्रज सा ।। ८० ॥