पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ सर्गः धर्मशर्माभ्युदयम् ।

नि सीमसौभाग्यपयोधिवेला वीचीव वक्ष पुलिने जिनस्य । समुल्लसन्ती परिपूर्णमस्याः सा पुण्यचन्द्रोदयमाचचक्षे ॥ ८१ ॥ उन्मुद्रितो यत्नवतापि नून धानाधुना स्त्रीनररनकोष । यदस्य युग्मस्य समानमन्यन्नादर्शि रूप न च दृश्यतेऽत्र ॥ २ ॥ इत्थं मिथ पौरकथाः स शृण्वन्पुर सरीभूतविदर्भराज. । स्वकर्मवृत्त्येव नरेन्द्रपुञ्या सम तदात्मेव पुरं विवेश ॥ ८३ ॥ वधूवृतं वीक्ष्य वर तमन्ये नृपा यथावासमपास्तभास । विभान्वित भास्करमाकलय्य जग्मु समूहा इव तारकाणाम् ॥ ८४ ॥ वयवर द्रष्टुमुपागताना ध्वजाशुकै?मसदामु । विचित्रवस्त्रार्पणतत्परेव रेजे विदर्भाधिपराजधानी ॥ ८५ ॥ अथाभवन्नम्बुदनादमन्द्र ध्वनत्लु तूर्येषु पुराङ्गनानाम् । उत्कण्ठितान्त करणानि कामं शिखण्डिनीनामिव चेष्टितानि ॥ ८६ ॥ करेऽन्दुक कङ्कणमड्रिमागे मुखे च लाक्षारसमायताक्षी । तमुत्सुका वीक्षितुमीक्षणे च सचारयामास कुरगनाभिम् ॥ ७॥ एतैत हे धावत पश्यताये जगन्मनोमोहनमस्य रूपम् । इत्थं तमुद्दिश्य पुराङ्गनाना कोलाहल कोऽपि समुज्जगाम ॥ ८ ॥ अट्टालशालापणचत्वरेषु रथ्यासु च व्याकुलकेशपाशा । दृष्टु तमम्भोजदृशो भ्रमन्त्य स्वमूचिरे कामपिशाचवश्यम् ॥ ८९ ॥ मुक्तामये खच्छरुचौ गुणाढ्ये तस्मिन्मनोज्ञे हृदयावतीर्णे । असूययेव त्रुटितोऽपि हार स्पष्टो वधूभिर्न जनावकीर्णे ॥ ९० ॥ पत्राङ्कुरै कापि कपोलमेक सभाव्य नेत्र च तथाञ्जनेन । उद्घाटितैकस्तनमण्डलागात्तमर्धनारीश्वरता वहन्ती ॥ ११ ॥ यियासतस्तस्य नरेन्द्रहर्म्यमत्यद्भुत रूपमवेक्ष्य मार्गे । पुर प्रयाणप्रतिषेधनाय शिरासि मन्ये दुधुवुस्तरुण्य ॥ ९२ ॥ रुद्ध जनैर्नेत्रपथेऽत्र काचिदुचैस्तरा निर्भयमारुरोह । आरूढचेतोभवपौरुषाणा किमस्त्यसाध्य हरिणेक्षणानाम् ॥ १३ ॥१पुर शरीरमपि २ नुपूरम्