पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ सर्गः धर्मशर्माभ्युदयम्

अथायमाहूय पति चमूना सुषेणमित्यादिशति म देवः । खराजधानी प्रति संवृतार्थ पित्राहमत्यथितयोपहूतः ॥ १०७ ॥ ततोऽतिवेगेन मनोवदामुं बध्वा समं रनपुर समीहे । त्व कायवत्कार्यमशेषयित्वा शनै ससैन्यो भवितानुगामी ॥ १.८॥ उक्त्वा तमित्यनुचर श्वशुरानुमत्या यावप्रभुः खपुरयानसमुत्सुकोऽभूत् । तावद्धनाधिपतिरम्बरपुष्पकल्प भक्त्या विमानमुपढौकयति स्म तस्मै ॥ १०९ ॥ तत्रारुह्य वितीर्णविस्मयरुचा शृङ्गारवत्याधिक पूषेव प्रविकासितास्यकमलो दिश्युत्तरस्या नजन् । सद्य प्राप सखेदमाढ्यदिव व्यालोलसौधध्वजै- देवो रत्नपुरं पुरदरगुरु. श्रीधर्मनाथ प्रभु ॥ ११ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तदश सर्गः । अष्टादश सर्ग। अथ श्रुताशेषसुखप्रवृत्तिना मुद महासेननृपेण बिभ्रता । प्रवर्तितानेकमहोत्सव पुर सम कलत्रेण विवेश स प्रभु ॥ १ ॥ स चन्द्रमाश्चन्द्रिकयेव कान्तया तयान्वितोऽत्यन्तमनोरमाकृति । कुमुद्तीनामिक पौरयोषिता चकार हक्कैरवकाननोत्सवम् ॥ २ ॥ अलंकृतं मङ्गलसविधानकै प्रविश्य हर्म्य हरिविष्टरस्थितौ । तदान्वभूतामनुभाविनाविमौ महत्तरारोपितमक्षतक्रमम् ॥ ३ ॥ यदल्पपुण्यैर्मनुजैर्दुरासदं सदैव यच्चाननुभूतपूर्वकम् । वधूवरालोकनलोलनेत्रयोर्वभूव पित्रो सममेव तत्सुखम् ॥ ४ ॥ स नन्दनालोकनजातसंमद सुरागलीलालसनिर्जराङ्गनम् । अमन्यत खर्गपुरोपमं नृप प्रसक्तसगीतकहारि तदिनम् ॥ ५ ॥१ शृङ्गारवती धर्मनाथस्य राज्ञी