पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अथैष शृक्षारवतीमिवापरा सकौतुकेनैव करेण मेदिनीम् । तमादराद्राहयितुं नरेश्वर स्थितं सदस्यात्मजमित्यभाषत ॥ १ ॥ नियम्य यद्राज्यतृणेऽपि पालित तवोदयायानगहनैकसत्त्ववत् । विबन्धनं तद्विषयेषु नि स्पृहं मनो वनायैव ममाद्य धावति ॥ ७ ॥ प्रतापटकैः शेतकोटिनिष्ठुरैः किरीटरत्नोपलपट्टिकावजे । स्फुरनिजाज्ञाक्षरमालिकामयी मया प्रशस्तिनिहिता महीभुनाम् ॥८॥ यशो जगन्मण्डलमण्डनीकृतं कृताः कृतार्था कृतिनोऽपि संपदा । त्वया च जाता धुरि पुत्रिणा वयं किमस्त्यपर्याप्तमतोऽत्र जन्मनि ॥९॥ ततोऽवशिष्टं पुरुषार्थमर्थतश्चतुर्थमेवार्थयतीह मे मनः । अथान्यदप्यस्ति विधेयमादरात्त्वमेव तत्साधु विचारयोचितम् ॥ १०॥ उपेत्य वात्येव जरातिजर्जर करोति यावन्न वपु कुटीरकम् । निकेतनं तावदुपैतुमक्षय द्रुत यतिष्ये जिननाथवर्त्मना ॥ ११ ॥ अपत्यमिच्छन्ति तदेव साधवो न येन जातेन पतन्ति पूर्वजा । इति त्वयापत्यगुणैषिणा पतन्नुपेक्षणीयो न भवामि सस्तौ ।। १२ ॥ ततोऽनुमन्यस्व नयज्ञ साधये समीहित त्वद्भुजदण्डशायिनि । चिरं धरित्रीवलये फणावतामपेतभार सुखमेधता पति ॥ १३ ॥ तवापि शिक्षा भुवनत्रयीगुरोबिभाति भानोरिव दीपदीधिति. । इति प्रपद्यापि यदुच्यते मया ममत्वमोह खलु तत्र कारणम् ॥१४॥ भृश गुणानर्जय सद्गुणो जनै क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषण प्रयाति बैलक्ष्यमिह क्षणादपि ॥ १५॥ उपात्ततन्त्रोऽप्यखिलाङ्गरक्षणे न मन्त्रिसानिध्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे परिस्खलन्कश्छलितो न भूपति ॥१६॥ न बद्धकोष स तथा यथाम्बुज विकोषमाकामति षट्पदोच्चयः । परामिभूतिप्रतिबन्धनक्षम नृपो विदध्यादिति कोषसंग्रहम् ॥ १७ ॥१ आरविकजीववत् २ वज्रवत्कठोरै .