पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ सर्गः धर्मशर्माभ्युदयम् ।

अनुज्झितस्नेहभर विभूतये विधेहि सिद्धार्थसमूहमाश्रितम् । स पीडित स्नेहमपास्य तत्क्षणांत्खलीभवन्केन निवार्यते पुनः ॥१८॥ स मन्दरागोपहत पयोनिधिर्मुमोच लक्ष्मी सगजामपि क्षणात् । इतीव जानन्निजसंनिधौ जनान्न मन्दरागाननिशं विधास्यसि ॥ १९ ॥ गतत्रपो यस्त्रपुणीव सन्मणि नियोजयेद्योग्यमयोग्यकर्मणि । विवेकवन्ध्य स महीपति. कथ भवेदनौचित्यविदाश्रयः सताम् ॥२०॥ अचिन्त्यचिन्तामणिमर्थसपदा यशस्तरो स्थानकमेकमक्षतम् । अशेषभूभृत्परिवारमातर कृतज्ञता तामनिशं त्वमाश्रय ॥ २१ ॥ स्थितेऽपि कोपे नृपति पराश्रयी प्रपद्यते लाघवमेव केवलम् । अशेषविश्वभरिकुक्षिरच्युतो बलि भजन्कि न बभूव वामनः ॥ २२ ॥ अनाहतोपक्रमकर्णधारका श्रयन्ति ये नीतिमिमा तरीमिव । विरोधिदुर्वातविदर्भिता विपन्नदी न दीना परिलइयन्ति ते ॥२३॥ महोभिरन्यानिह कूपदेशवजडाशया-शोपय भीषणै क्रमात् । यथा न लक्ष्म्या घटवोटयेव ते कृपाणधारासलिलं विमुच्यते ॥२४॥ अपेक्ष्य काल कमपि प्रकर्षत स्फुरन्त्यमी धामधना अपि द्रुतम् । हिमेन तेनापि तिरस्कृति कृतामहो सहस्ये सहते न कि रवि ॥२५॥ विशुद्धपाणि प्रकृतीरकोपयञ्जयाय यायादरिमण्डलं नृपः । बहिर्व्यवस्थामिति बिभ्रदान्तराञ्जयी कथ स्यादनिरुध्य विद्विषः ॥२६॥ ततो जयेच्छुर्विजिगीषुरान्तरान्यतेत जेतु प्रथमं विरोधिन । कथ प्रदीप्तानवधीर्य वहिना गृहानिहान्यत्र कृती व्यवस्यति ॥ २७ ।। यथावदारम्भविदो महीपतेर्गुणाय पाहुण्यमपि प्रजायते । असशय स्यादविमृश्यकारिणो मणि जिघृक्षोरिव तक्षकात्क्षय ॥२८॥ विधेयमार्गेषु पदे पदे स्खलन्नराधिनाथो मदमोहिताशय. । न शारदेन्दुद्युतिकुन्दसोदर यशोशुक सस्तमवैति सर्वतः ॥ २९ ॥१ स्नेह प्रेमा, (पक्षे) तैलम् २ आश्रित जन सिद्धार्थसमूह कृतकृत्य विधेहि; पक्षे) सिद्धार्थो गौरसर्षप ३ दुर्जनीभवन् , (पक्षे) पिण्याकता गच्छन् ४ मन्दरागो मन्दरपर्वत अन्यत्र मन्दरागान्मन्दस्नेहान्