पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ सर्गः धर्मशर्माभ्युदयम् ।

विचारयैतद्यदि केऽपि बान्धवा महाकविभ्योऽपि परे महीभुजः । यदीयसूक्तामृतसीकरैरसौ गतोऽपि पञ्चत्वमिहाशु जीवति ॥ ४१ ।। इहोपमुक्ता कतमैर्न मेदिनी परं न केनापि जगाम सा समम् । फलं तु तस्या सकलादिपार्थिवस्फुरद्गुणग्रामजयोर्जित यशः ॥ ४२ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषणैर्विभूषयात्मानमनन्यसनिभै । खभावलोला अपि यैर्विलोभिता श्रियो न मुश्चन्ति कदाचिदन्तिकम् ४३ इति प्रमोदादनुशास्य भूपतिस्तदैव दैवज्ञनिवेदितेऽहनि । बलादनिच्छन्तमपि न्यवीविशत्स धर्ममुच्चैरभिषेकपट्टके ॥ ४४ ॥ अथैष मूर्छत्सु मृदङ्गझल्लरीखनेषु रगत्यपि मगलध्वनौ । चकार चामीकरकुम्भवारिभिर्महाभिषेकं स्वयमस्य भूपति ॥ ४५ ॥ सभूषणे तत्परिधाप्य वामसी निवेशितस्यास्य मृगाधिपासने । स्वयं दधत्काञ्चनदण्डमञ्जसा पुर प्रतीहारनियोगमादवे ॥ ४६ ॥ प्रसीद दृष्ट्या स्वयमेष नैषधो नमत्यवन्तीपतिरेष सेवते । इदं पुर. प्राभृतमङ्गभूपतेरयं स कीरो विनयेन भापते ॥ १७ ॥ सितातपत्रं द्रविडो विभत्यसौ सचामरौ केरलकुन्तलाविमौ । इति प्रियैरप्यपदानुवर्तिन पितुर्वचोभि. शुचमेव सोऽवत् ॥ ४८ ॥ प्रभाकरे गच्छति वृद्धिमेकत कलानिधौ राज्ञि विवृत्तिमन्यत । रराज राज्य रजनीविरामवत्तदा न नक्षत्रविशेषशोभितम् ॥ ४९ ॥ पुरा त्रिलोक्यामपि मन्दरे सुरै कृतेऽभिषेके किमिद पुन पुन । इति स्फुरद्दन्तरुचेत्र निर्मल नभोऽहास पटहस्त्रनैर्व्यधात् ॥ ५० ॥ कृताभिषेको न परं स गामिमा प्रसूनगन्धोदकरत्नवृष्टिभिः । दुदोह कामान्दिवमप्यसशय किमस्त्यसाध्य सुकृतात्मनामपि ॥ ११ ॥ स पञ्जरेभ्य कलकेलिपक्षिणो विपक्षबन्दीश्च विमोचयन्नृप । मनोरथादप्यधिक ददत्तदा प्रवर्तयामास न कस्य समदम् ॥ ५२ ॥१ महाकविभ्योऽधिक कोऽपि महीपतीना बान्धवो नास्तीति भाव २ कीरदे- शमहीपति ३ धर्मनाथे सूर्ये च ४ महासेनमहीपती चन्द्रे च. ५ राज्यपक्षे क्षत्रविशेषैर्न शोभितमित्यर्थ