पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ काव्यमाला।

बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताको वानरमते गिरौ ॥ २३ ॥ किएँ दासतया स्थातुमीहसे वापि भूभृति । असख्य कर्म तत्कुर्वल्लप्स्यसे कम्बलोत्सवम् ॥ २४ ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया । परभीरहित पश्येत्परभीरहित परम् ॥ २५ ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृत । आयान्ति कटकैर्जुष्टा. सनागहरिखजिभि ॥ २६ ॥ मुरलो मुरलोपीव कुन्तल. कुन्तलश्च कै । मालवो मॉलवोद्रीवैयिते वार्य ते रणे ॥ २७ ॥ उद्दामद्विरदेनाद्यो (१) कलिङ्गेन वृषध्वजः । शिरोपितार्धचन्द्रेण कार्यस्त्वमगजाश्रित ॥ २८ ॥ अनेकपापरक्तो वा लभ सेनाशम गत । अनेकपापरतो वा लभसे नाशमङ्गतः ॥ २९ ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशक ॥ ३०॥ अधिक दरमेत्याहो अधिकदरमुन्नतान् । समासादयशा शैलान्समासादय वा नृपान् ॥ ३१ ॥ इति राजगणे तस्मिन्नधिकोपकृतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिविरराम सः ॥ ३२॥१. बहुशनासम् २ बहुशस्त्र आसमाहते ३ लब्धोत्सा ४. उदासतया. (पक्षे) दासतया ५ राशि, पर्वते च ६. क-बलोत्सवम् , (पक्षे) कम्बलोत्सवम् ७. बहु. धाम-रणे अच्छद्युत्खच्छतेजा ९ पर भी रहितम् १० परभी कातर ११. विष्णुरिव १२ कुन्तलदेशनृप १३ कुन्तान् लातीति १४ मा लक्ष्मीस्तस्या लवस्तेनोडी १५ अनेकप-अपरक्त. १६. समासातू अयशा.