पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्गः धर्मशर्माभ्युदयम् ।

गजवाजिजवाजिजयानुगत. स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिला श्रयितु स्वयमेन्ययमेत्य भवन्तमितः ॥ ९६ ॥ चन्द्राशुचन्दनरसादपि शीतमङ्ग पीयूषपूरमसकृद्धमतीव दृष्टिः । क्वायं पुनर्वसति वैरिमहीशवश- सप्लोषणो भुवनभूषण ते प्रताप ॥ ९७ ॥ चक्रेऽरिसततिमिहाजिषु नष्टपद्मा- तिख्यातिमेकचकिताकृतिधारिणी य । तिग्मासिरिष्टमतवत्स तवावति क्षमा कि तत्परं धरणिमित्र कृतिब्रवीमि || ९८ ॥ कः शर्मदं वृजिनभीतिहर जितात्मा हर्षाय न स्मरति तेऽभिनवं चरित्रम् । संपद्गुणातिशयपस्त्य रुच तवैति कः कान्तिमानतिमुधाद्रवरोचमानाम् ॥ ९९ ॥ (इति श्लोकद्वयनिर्वतितषोडशदलकमलचित्रे कविकाव्यनामाङ्कः । यथा--कर्णिकाक्षरेण मह प्रथमदलाबदलाग्रेषु हरिचद्रकृतधर्मजिनप- तिचरितमिति' इति ।) हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभिन । समया समयात्स्वय तत' कमला न्वा कमलाभमैक्षत ॥ १० ॥ आतङ्कार्तिहरस्तपद्युमणिसद्भरिप्रभाजिद्वयु- ईष्टव्य हृदि चिरत्नममम शौच च पीनोन्नते । देहेऽधस हित त्वमन्दमहदि क्षुदेऽप्यतो दर्शने वल्गुर्मद्वेमहस्य रम्यमपर क्षीणव्यपाय पदम् ।। १०१ ॥ दम्भलोभभ्रमा आदिरुद्धा गुणैर्द्रष्टुमप्यक्षमादेव वक्र तव । वयित्वा ययु सुश्रुत त्वा तथा ते भजन्ते यथा नेश भक्तानपि ॥१०२॥१ भाग्य प्राप्य २ उत्सवदेन ३ समीपे ४ कौस्तुभमणिम् ५ मनोज्ञोत्सवस्य