पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

(अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्ठाष्टमाक्षररेखाम्रमेण कविनामाङ्कश्लोक. । यथा- 'आर्द्रदेवसुतेनेदं काव्य धर्मजिनोदयम् । रचितं हरिचन्द्रेण परम रसमन्दिरम् ॥') स्फुटमिति कथयित्वा सत्कृति प्राप्य दूते गतवति निजगेह तत्सुषेण ससैन्यः । अहितविजयलब्ध वित्तमानीय भक्त्या- नतिचिरमुपनिन्ये धर्मनाथाय तस्मै ॥ १०३ ।। लभ्या श्रीविनिहत्य संगरभुवि क्षुद्रद्विषोऽभ्युन्नता धिक्ता धर्मपरिच्युतामरमिति स्वीकारमन्दस्पृहः । तद्भर्माभरुचं दधद्वरमरिद्रव्य सदायो ददे देवोऽस्तालसमाधिभित्कृतधियां ताम्यन्महस्वी मुदे ॥ १०४ ।। (अत्र चक्रबन्धचित्रे तृतीयषष्ठाक्षररेखाम्रमेण काव्यकविनामाङ्कः । यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् ।) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकोनविश सर्ग. । विश सग । इत्यब्दाना पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुद्यत्प्रभावः । देव पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ १ ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तर्हितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेजे ॥ २ ॥ जीर्ण कालाजातरन्ध्र नु पश्यन्देवस्तारादन्तुर व्योमभागम् । ज्वालालीला बिभ्रती कल्पवहेरहायोल्का निष्पन्तन्ती ददर्श ॥ ३ ॥ आविष्कतु स्फारमोहान्धकारच्छन्नं मुक्तेर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यजिता या ज्वलन्ती वर्तिर्दीपस्येव शोभामभाषर्षीत् ॥ ४ ॥१ वर्णाभदीप्तिम्