पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२० सर्गः धर्मशर्माभ्युदयम् ।

व्यादायास्यं विस्फुरत्तारतारादन्तश्रेणीमीष्ममत्तुं जगन्ति । कालेनैका ब्योमि विस्तार्यमाणा जिहेवाशु श्रद्धया या चकासे ॥ ५ ॥ कान्ति. कालव्यालचूडामणे कि पिङ्गा स्थाणो?ममूर्तेर्जटा वा । ज्वाला कि वास्यैव भालाक्षवहेर्दाहायेन्दोर्धाविता कामबन्धोः ॥ ६ ॥ भूयोऽनेन त्रैपुर कि नु दाह कर्तु मुक्तस्तप्तनाराच एष । इत्याशङ्काव्याकुलं लोकचेतो या सर्पन्ती व्योमि दूरादकार्षीत् ॥ ७ ॥ कर्तु कार्य केवल स्वस्य नासौ देवो विश्वस्यापि धाता तपस्या (१) । इत्यानन्दात्तस्य नीराजनेव व्योम्ना रेजे या समारभ्यमाणा ॥ ८॥ तामालोक्याकाशदेशादुदञ्चजोतिर्वालादीपिताशा पतन्तीम् । इत्थ चित्ते प्राप्तनिर्वेदखेदो मीलच्चक्षुश्चिन्तयामास देवः ॥९॥ देव कश्चिज्योतिषा मध्यवर्ती दुर्गे तिष्ठन्नित्यमेषोऽन्तरिक्षे । यातो दैवादीदृशी चेदवस्था क स्याल्लोके नियंपायस्तदन्य. ॥ १० ॥ आयु'कर्मालानभने प्रसर्पन्नापद्वीथीदीर्घदोर्दण्डचण्डः । प्राणायामाराममूलनि भिन्दन्कैरुत्सित सह्यते कालदन्ती ॥ ११ ॥ यत्ससक्त प्राणिना क्षीरनीरन्यायेनोचैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैर्याति चेत्तत्तदास्था का बाह्येषु स्त्रीतनृजादिकेषु ॥ १२ ॥ प्रत्यावृत्तिर्न व्यतीतस्य नून सौख्यस्यास्ति भ्रान्तिरागामिनोऽपि । तत्तत्कालोपस्थितस्यैव हेतोर्बघ्नात्यास्था समृतौ को विदग्ध ॥ १३ ॥ वातान्दोलत्पमिनीपल्वाम्भो विन्दुच्छायाभडुर जीवितव्यम् । तत्संसारासारसौख्याय कस्माजन्तुस्ताम्यत्यब्धिवीचीचलाय ॥ १४ ॥ सारङ्गाक्षीचञ्चलापासनेत्रश्रेणीलीलालोकसक्रामित नु । व्यालोलत्व तत्क्षणादृष्टनष्टा धत्ते नृणा हन्त तारुण्यलक्ष्मीः ॥ १५॥ हालाहेलासोदरा मन्दरागप्रादुर्भूता सत्यमेवात्र लक्ष्मीः । नो चेच्चतोमोहहेतु कथं सा लोके रागं मन्दमेवादधाति ॥ १६ ॥ विण्मूत्रादेर्धाम मध्यं बधूना तन्नि प्यन्दद्वारमेवेन्द्रियाणि । श्रोणीबिम्ब स्थूलमासास्थिकूट कामान्धाना प्रीतये धिक्तथापि ॥ १७ ॥१. वहिरिव घासकूटम्