पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ काव्यमाला ।

मेदोमज्जाशोणितै पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्धास्थिसधौ । साधुर्देहे कर्मचण्डालगेहे बध्नात्युद्यत्पूतिगन्धे रति क ॥ १८ ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवा केचिद्ये नरा. पन्नगा वा । तेऽप्यन्येऽपि प्राणिना क्रूरकालव्यालाक्रान्तं रक्षितु न क्षमन्ते ॥ १९ ॥ बाले वर्षीयासमाढ्य दरिद्र धीर भीरु सज्जन दुर्जन च । अनात्येक कृष्णवर्मेव कक्ष सर्वग्रासी निविवेक. कृतान्त ॥ २० ॥ स्वच्छामेवाच्छाद्य दृष्टि रजोभिः श्रेयोरत्न जाग्रतामप्यशेषैः । दोषैर्येषा दस्युरूपैरुपात्त ससारेऽस्मिन्हा हतास्ते हताशा ॥ २१ ॥ वित्त गेहादगमुच्चैश्चितानेावर्तन्ते बान्धवाश्च श्मशानात् । एक नानाजन्मवल्लीनिदान कर्म द्वेवा याति जीवेन सार्थम् ॥ २२ ॥ छेत्तु मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिप्ये तपोभि । को वा कारागाररुद्ध प्रबुद्ध शुद्धात्मान वीक्ष्य कुर्यादुपेक्षाम् ॥ २३ ॥ इत्थ यावत्प्राप्य वैराग्यभाव देवश्चित्ते चिन्तयामाम धर्म. । ऊचुः स्वर्गादित्युपेत्यानुकूल देवान्तावकेऽपि लौकान्तिकास्ते ॥ २४ ॥ नि शेषापन्मूलभेदि त्वयेद देवेदानी चिन्तित साधु साधु । एतेनैक केवलं नायमात्मा ससाराब्धेरुद्धृता जन्तवोऽपि ॥ २५ ॥ नष्टा दृष्टिनष्टमिष्ट चरित्रं नष्टं ज्ञान साधुधर्मादि नष्टम् । सन्त पश्यन्त्वत्र मिथ्यान्धकारे त्वत्त सर्व केवलज्ञानदीपात् ॥ २६ ॥ तैरानन्दादित्थमानन्धमान स्वर्दन्तीन्द्रारूढ जम्भारिमुख्याः । आसेदुस्त दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणा निकाया ।। २७ ।। दत्त्वा प्राज्यं नन्दनायाय राज्य देवोऽतुच्छप्रीतिरापृच्छय बन्धून् । दत्तम्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं म ॥ २८ ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलो मूलानीव कर्मद्रुमाणाम् । मुष्टिग्राहै पञ्चभि. कुन्तलाना वृन्दान्युच्चैरुच्चखान क्षणेन ॥ २९ ॥ केशास्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्र । भ; मूर्धादाय मुक्तान्कथचित्को वा विद्वान्नाददीतादरेण ॥ ३० ॥१ भवनवामि-व्यन्तर ज्योतिप्क कल्पवामिनो