पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

दृष्ट्वात्मानं पुद्गलाद्भिन्नरूप देवो देहे न स्वबुद्धि बबन्ध । तेनात्याक्षीत्तोयशीतातपातै श्रेयोनिष्ठः काष्ठबहूरमेनम् ॥ ४२ ॥ विघ्न निघ्नन्नाक्षिपन्नेष दोषाञ्जज्ञे खामी भाजन यत्क्षमाया' । सैषा काचिच्चातुरी तस्य भर्तुश्चित्तेऽस्माक चित्रमद्यापि दत्ते ॥ ४३ ॥ आससार साहचर्यव्रतस्थ दु स्थीकुर्वनरागमागन्तुकेऽपि । योगे मैत्री पक्षपातं च मोक्षे विचित्र ख चरित्र स ऊचे ॥ ४४ ॥ तस्याशेष कर्षतो धीवरस्य स्फारीभूत मानसान्मोहजालम् । तत्पाशान्त पीड्यमानैकमीनो मन्ये त्रासान्निर्ययौ मीनकेतु. ॥ ४५ ॥ कल्पान्तोद्यवादशद्वादशात्मश्रेणीतेज पुञ्जतीव्रतेऽस्मिन् । दृग्व्याघातत्रस्तचित्तेव चक्षुनों चिक्षेप प्रत्यह मोहलक्ष्मीः ॥ ४६ ॥ चके कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थ शाणोल्लेख. सम्यगारभ्यमाण. ॥ ४७ ।। एक पात्र सौकुमार्यस्य तीने तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मी क्षीणपीयूषरश्मे ॥ ४८ ।। भर्गादीना भमगर्वातिरेक क. श्रीधर्मे मीनकेतुर्वराक । अध्यारूढप्रौढिरमौ न कुर्याद्रनज्योति स्तम्भमम्भोनिषेक ॥ ४९ ॥ भ्रूचापेनाकर्णमाकृष्य मुक्ता खर्गस्त्रीभिस्तत्र दीर्घा कटाक्षा । हृत्सतोषाविर्भवद्वारबाणे बाणा कामस्येव वैफल्यमीयु ॥ ५० ॥ भोगे रोगे काञ्चने वा तृणे वा मित्रे शत्रौ पत्तने वा चने वा। देवो दृष्टि निर्विशेषा दधानोऽप्येक सीमासीद्विशेषज्ञताया ॥ ११ ॥ तथ्य पथ्यं चेदभाषिष्ट किचिसिद्ध शुद्ध चेदभुतान्यदत्तम् । मुक्त्वा नक्त चेदयासीत्स पश्यन्सर्वे किचित्तस्य शास्त्रानुरोधि ॥ १२ ॥ तस्यावश्य वायुरेकेन्द्रियोऽपि प्रत्यासत्तौ प्राप न प्रातिकूल्यम् । तक्कि चित्र तत्र पञ्चेन्द्रियाणा सिहादीना यन्न दु शीलभाव. ॥ १३ ॥१. देहात् २ धिया श्रेष्टस्य, (पक्षे) कैवर्तस्य ३ अन्त करणात् , (पक्षे) सरोवि- शेषातू, ४ द्वादशात्मा दिवाकर ५ वारबाण कञ्चक