पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी । निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ २ ॥ विपक्षगर्वसर्वखदूरोच्चाटनडिण्डिम । अपारपापसंभारभूधरोपद्रवाशनि ॥ ३ ॥ स्थाद्वादवादसाम्राज्यप्रतिष्ठाप्रसवश्रुति । अतुल्यधर्ममल्लोस्करास्फोटस्फुटाकृति ॥ ४ ॥ भूविभ्रमकरन्यासश्वासौष्ठम्पन्दवर्जिता । वर्णविन्यासशून्यापि वन्तुबोधविधायिनी ॥ ५ ॥ पृथक्पृथगभिप्रायवचसामपि देहिनाम् । तुल्यमेकाप्यनेकेषा स्पष्टमिष्टार्थसाधिका ॥ ६ ॥ मर्वाद्भुतमयी सृष्टि सुधावृष्टिश्च कर्णयो । प्रावर्तत ततो वाणी सर्वविद्येश्वगद्विभो ।। ७ ।। (कुलकम् ) जीवाजीवाश्रवा बन्धसवरावपि निर्जराः । मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ ८॥ वन्धान्त विनो पुण्यपापयो. पृथगुक्तित । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥९॥ अमूर्तश्चेतनाचिह्न कर्ता भोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतो जीव स्थित्युत्पत्तिव्ययात्मक ॥ १० ॥ मिद्धससारिभेदेन द्विप्रकार म कीर्तित । नरकादिगतमेंदात्ससारी म्याच्चतुर्विध ॥ ११ ॥ नारक सप्तधा सप्तपृथ्वीभेदेन भिद्यते । अधिकाधिकसक्लेशप्रमाणायुर्विशेषत ॥ १२ ॥ रत्नशर्करावालुकापङ्कधूमतम प्रभा । महातम. प्रभा चेति सप्तैता. श्वभ्रभूमयः ॥ १३ ॥ तत्राद्या त्रिंशता लबिलानामतिभीषणा । द्वितीया पञ्चविशत्या तृतीया च तिथिप्रमै ॥ १४ ॥