पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

चतुर्थे त्रीण्यहान्येव पञ्चमस्य प्रकर्षतः । पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ ४१ ॥ आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते । शीतवर्षातपक्लेशवधबन्धादिदु खभाक् ॥ ४२ ॥ इति तिर्यग्गते दो यथागममुदीरित. । मानवाना गते' कोऽपि प्रकार कथ्यतेऽधुना ॥ ४३ ।। द्विःप्रकारा नरा भोगकर्मभूभेदत स्मृताः। देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमय ॥ ४४ ॥ जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् । द्विचतु षड्धनुर्दण्डसहस्रोत्तुङ्गमानवा. ॥ ४५ ॥ तावेकद्वित्रिपल्यायु विनो भुञ्जते नरा । दशाना कल्पवृक्षाणा पात्रदानार्जित फलम् ॥ ४ ॥ कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छभेदतः । भारताद्या पुन. पञ्चदशोक्ता कर्मभूमय ॥ ४७ ।। धनु पञ्चशतैस्तासु सपादै प्रमितोदया । उत्कर्षतो मनुष्या. स्यु पूर्वकोटिप्रमायुष ॥ १८ ॥ उत्सर्पिण्यवसर्पिण्यो. कालयोर्वृद्धिहासिनी । भरतैरावते स्याता विदेहस्त्वक्षतोदय ॥ ४९ ।। सागरोपमकोटीना कोटिभिर्दशभिर्मिता । आगमज्ञैरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ ५० ॥ सुखमासुखमा प्रोक्ता सुखमा च ततो बुधैः । सुखमादु खमान्यापि दु खमासुखमा क्रमात् ॥ ११ ॥ पञ्चमी दुखमा षष्ठी दुखमादुःखमा मता । प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदत. ॥ १२ ॥ चतस्रः कोटयस्तिस्रो द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीना मानमुक्तं जिनागमे ॥ १३॥