पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

ऊना सहखैरब्दाना वाचत्वारिंशता तत । चतुर्थ्यम्भोधिकोटीना कोटिरेका प्रकीर्तिता ॥ ५४ ॥ पञ्चमी वत्सराणा स्यात्सहस्राण्येकविशति । नत्प्रमाणैव तत्त्वज्ञैन षष्ठी प्रतिष्ठिता ॥ ५५ ॥ घोढा षट्कर्मभेदेनते गुणस्थानभेदत । म्युश्चतुर्दश धात्रीर्या म्लेच्छा. पञ्च प्रकीर्तिता. ॥ १६ ॥ म्वभावमार्दवत्वेन वल्पारम्भपरिग्रहा । भवन्त्यत्र नरा पुण्यपापामिप्रक्षयक्रमा ॥६७ ।। नारीगर्भेऽतिबीभत्से कफामासृङालाविले ।। कुम्भोपाकाधिकासाते (१) जायते कृमिवन्नर ॥ १८ ॥ वर्णितेति गतिर्नृणा देवानामपि सपति । कियन्यपि मगनन्दोजीविनी वर्णयिग्यते ॥ ५९ ॥ भावनव्यन्तरज्योतिर्वैमानिकविभेदत । देवाश्चतुविधास्तेषु भावना दशधोदिता ॥६॥ असुराहिसुपर्णानिविद्युद्वातकुमारकाः । दिग्द्वीपस्ननिताम्भोधिकुमाराश्चेति भेदत ॥ ६ ॥ नत्रासुरकुमाराणामुत्सेध पञ्चविशति । चापानि दश शेषाणामप्युदन्वत्परायुषाम् ।। ६२ ॥ दशसप्तधनुर्माना व्यन्तरा. किनरादया । शिष्टास्तेऽष्टविधा येषामायु. पल्योपम परम् ।। ६३ ॥ ज्योतिष्का पञ्चधा प्रोक्ता सूर्यचन्द्रादिभेदतः । येषामायु.प्रमाण च व्यन्तराणामिवाधिकम् ॥ ६४ ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिषामायुरीरितम् ॥ १५ ॥ वैमानिका द्विधा कल्पसंभूतातीतभेदतः । कल्पजास्तेऽच्युतादर्वाक्कल्पातीतास्ततः परे ॥ ६ ॥