पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सौधर्मेशाननामानौ धर्मारम्भमहोद्यमौ । सनत्कुमारमाहेन्द्रौ ब्रमब्रह्मोत्तरावपि ॥ १७ ॥ ततो लान्तवकापिष्ठौ शुक्रशुक्रोत्तरौ परौ । शताराख्यसहस्रारावानतप्राणतावपि ॥ ६८ ॥ अथारणाच्युतौ कल्पा षोडशेति प्रकीर्तिताः । इढानी तेषु देवानामायुर्मानं च कथ्यते ॥ ६९ ॥ हस्ता सप्त द्वयोर्मानं षडूर्व नाकिषु द्वयोः । चतुर्णी पञ्च चत्वारस्तदूर्वं तावता क्रमात् ॥ ७० ॥ त्रयः सार्धा द्वयोरूर्वमूर्ध्वमाझ्या द्वयोम्बय । इति षोडशकल्पानामूल अवेयकेप्वपि ॥ ७१ ॥ अधस्थेषु करौ साधं द्वौ मध्येपूर्ध्वगेपु च । त्रिषु सार्धकरास्तेन्य. परे हस्तप्रमा सुरा ॥ ७२ ॥ सौधर्मेशानयोरायु स्थितिौं सागरौ मतौ । सनत्कुमारमाहेन्द्रकल्पयो सप्तसागरा. ॥ ७३ ।। दशैव कल्पयोर्जेया ब्रह्मब्रह्मोत्तराख्ययो । निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ ७४ ।। षोडशैव तत. शुक्रमहाशुक्राभिधानयोः । अष्टादश शतारे च सहस्रारे च निश्चिता ॥ ७९ ॥ वर्णिता विशतिर्नूनमानतप्राणताख्ययो । उक्ता द्वाविशति प्राज्ञैरारणाच्युतयोरपि ॥ ७६ ॥ सर्वार्थसिद्धिपर्यन्तेवतो त्रैवेयकादिषु । एकैको वर्धते तावद्यावत्रिशत्रयाधिका ॥ ७७ ॥ अकामनिर्जराबालतप सपत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुरा. सुखम् ॥ ७८।। विलासोल्लाससर्वख रतिकोषसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ ७९ ॥