पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला

यथागममजीवस्य कृता रूपनिरूपणा । इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ ९३ ॥ शरीरवाङ्मनःकर्मयोग एवाश्रवो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥ गुरुनिह्नवदोषोक्तिमात्सर्यासादनादय । आश्रयत्वेन विज्ञेया दृग्ज्ञानावृत्तिकर्मणो ॥९५ ॥ दुःखशोकभयाक्रन्दसतापपरिदेवनैः । जीवो बध्नात्यसद्वेद्यं स्वपराभयसश्रयैः ॥ ९६ ॥ क्षान्तिशौचदयादानसरागसयमादयः । भवन्ति हेतव सम्यगसद्वेद्यस्य कर्मणः ॥ ९७ ।। केवलिश्रुतसंघार्हद्धर्माणामविवेकत । अवर्णवाद एवाद्यो दृष्टिमोहस्य संभव ॥९८ ।। कषायोदयतस्तीव्रपरिणामो मनस्विनाम् । चारित्रमोहनीयस्य कर्मण कारण परम् ॥ ९९ ।। श्वभ्रायुषो निमित्तानि बह्वा औरम्भपरिग्रहा । मायार्तध्यानतामूलं तिर्यग्योनिभवायुष ॥ १०० ॥ नरायुषोऽपि हेतु स्यादल्पारम्भपरिग्रह । सरागसंयमत्वादिनिदान त्रिदशायुष ।। १०१॥ स्याद्विसवादन योगवक्रता च निरत्यया । हेतुरशुभस्य नाम्नतदन्यस्य तदन्यथा ॥ १०२ ।। षोडशदृग्विशुद्ध्याद्यास्तीर्थकृन्नामकर्मण । स्वप्रशसान्यनिन्दाद्या नीचैर्गोत्रस्य हेतव ॥ १०३ ।। विपरीता पुनस्ते स्युरुच्चैर्गोत्रस्य साधका । अन्तराय सदानादिविघ्ननिर्वर्तनोदयः ॥ १०४ ॥ रहस्यमिति निर्दिष्ट किमप्या‌श्रवगोचरम् । बन्धतत्त्वप्रबोधोऽयमधुना विधिनोच्यते ॥ १०५॥