पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

सकषायतया दत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान्कर्मणो योग्यान्बन्ध स इह कथ्यते ॥ १०६ ॥ मिथ्यादृक्च प्रमादाश्च योगाश्चाविरतिस्तथा । कषायाश्च म्मृता जन्तो पञ्च बन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशाना विभेदत । चतुर्विध प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतय प्रोक्ता ज्ञानावृतिदृगावृती । वेद्य च मोहनीयायुर्मगोत्रान्तरतराययुक् ॥ १०९॥ तद्भेदा पञ्च नव द्वावष्टाविशतिरप्यन । चत्वारो द्विचत्वारिंशद्द्वौ पञ्चापि स्मृता क्रमात् ।। ११० ॥ आदितस्तिसृणा प्राज्ञैरन्तरायस्य च स्मृता । सागरोपमकोटीना त्रिशत्कोट्य परा स्थिति ॥ १११ ॥ सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । आयुषस्तु त्रयस्त्रिंशद्विज्ञेया सागरोपमा ॥ ११२ ।। अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नाम्नो गोत्रस्य चाष्टौ स्याच्छेषास्त्वन्तर्मुहूर्तकम् ॥ ११३ ॥ भाव्यक्षेत्रादिसापेक्षो विपाक कोऽपि कर्मणाम् । अनुभागो जिनैरुक्तः केवलज्ञानभानुभिः ॥ ११४ ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशा कर्मणोऽनन्ताः स प्रदेश स्मृतो बुधै ॥ ११ ॥ इत्येष बन्धतत्त्वस्य चतुर्धा वर्णितः क्रम । पदैः संह्रियते कैश्चित्संवरस्यापि डम्बर ॥ ११६ ॥ आश्रवाणामशेषाणा निरोधः सवरः स्मृतः । कर्म संव्रियते येनेत्यन्बयस्यावलोकनात् ॥ ११७ ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संत्रियते येन संवरः स निगद्यते ॥११६॥ (इति पाठान्तरम्)