पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला

अङ्गारशकटारामभाटकास्फोटजीवनम् । तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ १४५॥ दन्तकेशनखास्थित्वग्रोम्णा निन्धरसस्य च । शणलाङ्गललाक्षाय वेडादीना च विक्रयः ॥ १४६ ॥ वापीकूपतडागादिशोषण कर्षणं भुव । निलान्छन भक्षरोध पशूनामतिभारणम् ॥ १४७ ॥ वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा । एवमन्येऽपि बहवोऽनर्थदण्डा प्रकीर्तिता. ॥ १४८ ॥ 14 सामाजिकमधाद्य स्थाच्छिक्षात्रतमगांरिणाम् । आतरौद्रे परित्यज्य त्रिकाल जिनवन्दनात् ॥ १४९ ॥ निवृत्तिर्भुक्तभोगाना या स्यात्पर्वचतुष्टये । पोपधाख्य द्वितीय तच्छिक्षात्रतमितीरितम् ॥ १५० ॥ भोगोपभोगसंख्यान क्रियते यदलोलुपै. । तृतीय तत्तदाख्य स्याह खदावानलोदकम् ।। १५१ ।। गृहागताय यत्काले शुद्ध दान यनात्मने । अन्ते सल्लेखना वान्यतच्चतुर्थ प्रकीर्त्यते ।। १५२ ॥ व्रतानि द्वादशैतानि सम्यग्दृष्टिभिति य । जानुदप्तीकृतागाधभवा भोधि स जायते ॥ १५३ ॥ यथागममिति प्रोक्त व्रतं देशयतात्मनाम् । अनागारमत किचिह्नमस्त्रैलोक्यमण्डनम् ॥ १५ ॥ अनागार व्रतं द्वेधा बाह्याभ्यन्तरभेदत । षोढा बाह्य जिन. प्रोक्त तावत्सख्यानमान्तरम् ॥ १५५ ॥ वृत्तिसख्यानमौदर्यमुपवाप्तो रसोधनम् (८) । रह स्थितितनुक्लेशौ षोढा बाझमिति व्रतम् ॥ १५६ ॥ स्वाध्यायो बिनयो ध्यानं व्युत्सर्गो व्यावृत्तिस्तथा । प्रायश्चित्तमिति प्रोक्तं तप. षड्डिधमान्तरम् ।। १५७ ।।