पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

यास्तिसो गुप्तयः पञ्च ख्याता समितयोऽपि ताः । जननात्पालनात्पोषादष्टौ तन्मातरः स्मृताः ॥ १५८ ॥ निरूपितमिद रूप निर्जरायाः समासत. । इयमक्षीणसौख्यस्य लक्ष्मीर्मोक्षस्य वर्ण्यते ॥ १५९ ।। अभावाद्वन्धहेतूना निर्जरायाश्च यो भवेत् । निःशेषकर्मनिर्मोक्षः स मोक्ष कथ्यते जिनै ॥ १६०॥ ज्ञानदर्शनचारित्रैरुपायै परिणामिनः । भव्यस्यायमनेकाइविकलैरेव जायते ॥ १६१ ॥ तत्त्वस्यावगनिनि श्रद्धानन्तस्य दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्र वर्ण्यते जिनै ॥ १६२ ।। ज्वालाकलापवद्वहेरूर्वमेरण्डबीजवत् । ततः स्वभावतो याति जीवः प्रक्षीणबन्धन ॥ १६३ ॥ लोकाग्र प्राप्य तत्रैव स्थिति वध्नाति शाश्वतीम् । ऊर्ध्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ १६४ ॥ तत्रानन्तमसमाप्तमच्यावाधमसन्निभम् । प्राग्देहात्किचिदूनोऽसौ सुख प्रामोति शाश्वतम् ।। १६५ ।। इति तत्त्वप्रकाशेन नि शेषामपि ता सभाम् । प्रभुः प्रह्लादयामास विवखानिव पद्मिनीम् ॥ १६६ ॥ अथ पुण्यैः समाकृष्टो भव्याना निस्पृहः प्रभुः । देशे देशे तमश्छेत्तु व्यचरद्भानुमानिव ॥ १६७ ॥ दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्यादृतस्तेन स्थानमुच्चैथियासुना ॥ १६८ ॥ अनपायामिव प्राप्तु पादच्छाया नभस्तले । उपकण्ठे लुलोठास्य पादयोः कमलोत्करः ॥ १६९ ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजन लक्ष्म्यास्तेनायं कमलाकरः ।। १७० ॥ १५