पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

तिलकं तीर्थकृल्लक्ष्म्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्र जगच्चक्रे चक्रवर्तित्वमक्षतम् ॥ १७१ ।। विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थता गतः । सेवार्थ सचचाराग्रे धर्मचक्रच्छलाद्रविः ॥ १७२ ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातङ्कशोकशङ्कापि दुर्लभा ॥ १७३ ।। निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः । प्रजा इव भुवोऽप्यासन्निष्कण्टकपरिग्रहाः ॥ १७४ ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधौ प्रभोः । महाबलोऽपि यद्वायुः पाप तस्यानुकूलताम् ॥ १७५ ॥ हेमरम्य वपुः पञ्चचत्वारिंशद्धनुर्मितम् । बिभ्रद्देवै श्रितो रेजे स्वर्णशैल इवापरः ।। १७६ ॥ द्वाचत्वारिशदेतस्य सभाया गणिनोऽभवन् । नवैव तीक्ष्णवुद्धीना शतानि पूर्वधारिणाम् ॥ १७७ ॥ शिक्षकाणा सहस्राणि चत्वारि सप्तभि शतैः । सह पनि शतैस्त्रीणि सहस्राण्यधिबोधिनाम् ॥ १७८ ॥ केवलज्ञानिना पञ्चचत्वारिशच्छत्तानि च । मन पर्ययनेत्राणा तावन्ति क्षपिताहसाम् ॥ १७९ ।। सप्तैव च सहस्राणि विक्रयद्धिमुपेयुषाम् । शतैरष्टाभिराश्लिष्टे द्वे सहस्रे च वादिनाम् ॥ १८ ॥ अर्जिकाणा सहस्राणि षट्चतुर्भिः शतै सह । श्रावकाणा च लक्षे द्वे शुद्धसम्यक्त्वशालिनाम् ॥ १८१ ॥ श्राविकाणा तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणा तिरश्चा च सख्याप्यत्र न बुध्यते ॥ १८२ ॥ इत्याश्वास्य चतुर्विधेन महता संघेन सभूषितः सैन्येनेव विपक्षवादिवदनाकृष्टामशेषा महीम् ।