पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ सर्गः] धर्मशर्माभ्युदयम् । न जन्मन प्राङ् न च पञ्चताया परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहाविह कश्चिदात्मा ॥६॥ कि स्वत्र भूवह्निजलानिलाना संयोगत कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ १५ ॥ विहाय तदृष्टमदृष्टहेतोर्वृथा कृथा पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्ध विदग्धो ननु दोग्धि शृङ्गम् ॥६६॥ श्रुत्वेत्यवादीन्नृपतिर्विधुन्वन्भानुस्तमासीव स तद्वचांसि । अपार्थमर्थं वदत सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ ६ ॥ जीव स्वसवेद्य इहात्मदेहे सुखादिवह्बाधकविप्रयोगात् । काये परस्यापि स बुद्धिपूर्वव्यापारदृष्टेः स्व इवानुमेयः ॥ ६८ ॥ तत्कालजातस्य शिशोरपास्य प्राग्जन्मसंस्कारमुरोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यम् ॥१९॥ ज्ञानैकसवेद्यममूर्तमेन मूर्ता परिच्छेत्तुमल न दृष्टि । व्यापार्यमाणापि कृताभियोगैभिनत्ति न व्योम शितासियष्टि ॥ ७० ॥ सयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भ.स्थाल्यामनेकान्त इहास्तु तस्य ॥ ७१ ।। उन्मादिका शक्तिरचेतना या गुडादिसबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षामधिरोहतीह ॥ ७२ ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एक कथचिद्विपरीतरूपादवैहि देहात्पृथगेव जीव ॥ ७३ ॥ निसर्गतोऽप्यूर्ध्वगति प्रसह्य प्राकर्मणा हन्त गतीर्विचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ ७४ ॥ तदात्मन. कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः । मणेरनर्घम्य कुतोऽपि लग्न को वा न पङ्कं परिमार्ष्टि तोयै ॥ ७५ ॥ १ जीव २. बाधकप्रमाणाभावात्. ३ लन्यपाने ४ व्यभिचार . ५ 'द्राकर्मणा' इति पाठ