पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रत्नभूषणरुचा प्रपञ्चिते वासवस्य परित. शरासने । अन्तरुद्धुरतडित्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ ४ ॥ कान्तिकाण्डपटगुण्ठिता पुरा व्योममित्तिमनु वर्णकद्युतिम् । तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ ५ ॥ शीतदीधितिधियाभिधावितै. सैहिकेयनिकुरम्बकैरिव । सौरभादभिमुखालिमण्डलैर्भ्राजितानि वदनानि बिभ्रतीः ॥३॥ स्वानुभावधृतभूरिमूर्तिना पद्मरागमणिनूपुरच्छलात् । भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणा समन्मथम् ॥ ७ ॥ निष्कलकगलक्रन्दलीलुठत्तारहारलतिकापदेशतः । संगता इव चिरेण गौरवादन्तरिक्षसरितावगूहिताः ॥ ८ ॥ पारिजातकुसुमावतसकस्पर्शमन्थरमरुत्पुर सरा । पश्यतोऽथ नृपते सभान्तिक ता समीरणपथादबातरन् ॥९॥ (कुलकम्) पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया । दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ १० ॥ तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुर । ता. प्रतापधृतमद्भुतोदय भूपतेर्यश इव व्यलोकयन् ॥ ११ ॥ तत्प्रतिक्षणसमुल्लसद्यशोराजहसनिकुरम्बकैरिव । कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ १२ ॥ दाक्षिणात्यकविचक्रवर्तिना हृच्चमत्कृतिगुणाभिरुक्तिभिः । पूरितश्रुतिशिरो विधूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ १३ ॥ सुखरश्रुतिमुदाररूपका रागिणी पृथगुपात्तमूर्छनाम् । गीतिमिन्दुवदनामिवोज्ज्वला भावयन्मुकुलितार्घलोचनः ॥ १४ ॥ एणनाभिमभिवीक्ष्य कक्षयो. क्षिप्तमीततिमिरानुकारिणम् । रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रितश्रुति ॥ १५ ॥ अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुुन्तलैः । विभ्रमादपि समुत्क्षिपन्भ्रुवं भीतभीतमवनीश्वरै श्रितः ॥ १६ ।।