पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मशर्माभ्युदयम् । ५ सर्ग] तामनेकनरनाथसुन्दरीवृन्दवन्दितपदा द्युयोषित । हारिहेमहरिविष्टरे स्थिता मानुषेशमहिषी व्यलोकयन् ॥ ३१॥ (कुलकम्) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमबलामिलापते । ताभिरप्रतिमकालसचितोऽप्युज्झित. सपदि चारुतामद ॥ ४२ ॥ श्रीरशेपसुखदा प्रियवदा भारती रतिरभेद्यकिकरी । सौम्यदृष्टिरपि कर्णमोटिका कालिका च रचितालकावलि ॥ ४३ ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मन स्थिति । ह्रीप्रसत्तिधृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यता' ।। ४४ ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणै स्वयम् । तन्निदेशरसपेशल हरेर्ब्रूहि कर्म किमु कुर्महेऽधुना ॥ ४५ ।। (कुलकम्) इत्युदीर्य च मिथ प्रणम्य च स्व निवेद्य च तदिन्द्रशासनम् । स्व स्त्रियस्त्रिभुवनेशमातर ता निषेवितुमिहोपचक्रिरे ।। ४६ ॥ अश्मगर्भमयमूर्ध्वमुद्धृत छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरज्जाह्ववौघमिव मण्डलं दिव ॥ १७ ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वन । पुष्पचारु कबरीप्रसाधन मूर्ध्नि पार्थिवमृगीदृशो व्यधात् ॥ ४८ ॥ अङ्गरागमपि कापि सुभ्रुव साध्यसपदिव निर्ममे दिव । यामिनीव शुचिरोविष परा चारुचामरमचालयच्चिरम् ॥ ४९ ॥ मूर्ध्नि रत्नपुरनाथयोषित. सा कयापि रचितालकावलि । या मुमोष मुखपद्मसनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ १० ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयो । अभ्यधत्त सुतनोरगाधतामुल्लसल्लंवणिमाम्बुधेरिव ॥ ५१ ॥ निष्कलङ्गमणिभूषणोच्चयै सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ ५२ ॥ १ मनोहरे सुवर्णसिंहासने २ भूपते ३ चामुण्डा वण्यसिन्धो. ४ हारन्मणिमयम् ५ ला-